________________
भूमिका |
जन इत्यादि सर्व सुप्रसिद्धम् । विस्तरेण च प्रकाशयिष्यते यथाऽवसरम् । एवं सुपरिष्कृत्य संशोध्य सम्मुद्रय प्रकाशितोऽयं ग्रन्थः साधुरसाधुर्वेति परीक्षका गुणग्राहिण एव विचारयन्तु । अहं तु - 'आपरितोषा - द्विदुषां न साधु मन्ये प्रयोगविज्ञानम्' इत्येव मन्ये ।
अन्ते च निजबहुधनव्ययमूरीकृत्याऽपि विद्यार्थिजनोपकाराय प्राचीनग्रन्थरत्नप्रकाशनैकतत्पराय श्रीयुत बाबू जयकृष्णदास गुप्त महाशयाय प्रकृतग्रन्थरत्नप्रकाशन विनिमये आशीर्वादमन्तरा किं प्रदेयमिति तमनेकाभिराशीर्भिः संयोज्य, ग्रन्थस्यैतस्यैताद्गशरीत्या मुद्रणे प्रदत्तसमुत्साहान् माननीय पं० गोपीनाथ कविराज एम० ए० ( प्रिन्सिपल गवर्नमेन्ट संस्कृत कॉलेज बनारस ) महोदयान् नूतननिर्मितोदाहरणप्रदानादिना सः मुत्साहवर्धनेन च सविशेषं साहाय्यमाचरतः साहित्याचार्य खिस्तेश्रोनारायणशास्त्रिमहोदयांश्चाऽभिनन्द्य तथैव प्रकृतग्रन्थमुद्रणे प्रदत्तसमुत्साहान् पूज्यवर - साहित्योपाध्याय एम्० ए० पं० बटुकनाथशर्ममहोदयानभिनन्द्य साञ्जलिबन्धं परमेशमभिवन्द्य विरमामि लेखादस्मादिति शम् ।
काशी सं-१९८४
प्रार्थयितावरकलोपाख्यः वैद्यनाथशास्त्री