________________
प्रस्तावना
शास्त्रं हि काव्यरचनोचितां दिशं दर्शयित्वा चमत्करोति सचेतसां चेतांसि । यत्खलु काव्यस्वरूपं निरूप्य दोषगुणरीतिरसालङ्काराणामवधारणे शक्तिमुन्मेषयति, तत्तावदलङ्कारशास्त्रं निगद्यते । काव्यनिर्माकलाकौशलानि लोकोत्तर विलक्षणानि नान्यत्र विलसन्ति । सहृदयहृदयानन्दसाधनं नान्यदस्तीति सर्वोत्कृष्टमिदमलङ्कारशास्त्रम् ।
सत्यपि काव्यप्रपञ्चेऽलङ्काराणां प्राधान्ये, तत्र शास्त्रे कथमिव काव्योचिताः सर्वेऽपि विषया गुणदोषादयः सन्निवेश्यन्ते इति बली यसीं शङ्कां समाधातुं तद्वीजमन्विष्यते - पूर्वे किल वाल्मीकिप्रभृतयो लक्ष्यैकचक्षुषः शक्तिशालिनो महान्तस्तानि तानि काव्यानि प्रणीय विविधं लोकोपकारं रचयाम्बभूवुः । ततस्तथैवान्येऽपि काव्यरचनासु प्राभवन् । परं काव्य निर्माणौपयिकान्नियमान् अविज्ञाय कथं नाम सर्वेऽपि लक्षणैकचक्षुषो मन्दास्तत्र प्रवर्तेरन्निति तेषामुपदेशाय काव्यशास्त्रं लक्षणरूपं नियामकं निरमीयत । तस्य च अलङ्कारशास्त्रमिति सङ्केतः समजनि । ततश्च अनित्यधर्माणामप्यलङ्काराणां चमत्कृतिजनकत्वेन तत्कृतचारुत्वस्यैव काव्यव्यवहारहेतुतया, प्रतीयमानमर्थं वाच्योपस्कारकतयाऽलङ्कारपक्षनिक्षिप्तं मन्वानैः प्राक्तनैर्भामहादिभिः 'अलङ्क्रियतेऽनेन' इति करणव्युत्पत्त्या 'प्राधान्येन व्यपदेशा भवन्तीति नयेन अलङ्कारा एव काव्ये प्रधानमिति सिद्धान्तितम् | इत्थंत्रिधे व्यवहारे प्रचलिते 'रीतिरात्मा काव्यस्य, वक्रोक्तिः काव्यजीवितम्, रसः काव्यात्मा, काव्यस्यात्मा ध्वनिः, नित्यधर्मा गुणाः काव्ये प्रधानम्' इति विविधान् पक्षानुपक्षिपतां वामनादीनां समये 'अलङ्कृतिरलङ्कारः' इति भावप्रधानां व्युत्पत्तिमवलम्ब्य काव्यशास्त्रेषु रसादिप्रतिपादकेषु अलङ्कारत्वव्यवहारः प्रावर्तत । तादृशमेव पन्थानमनुसृत्य श्रीमन्मन्मदभद्वैर्विरचितः 'काव्यप्रकाशो' नाम अलङ्कार शास्त्रीयो निबन्ध आकरशास्त्रं लक्षणशास्त्रं वेति प्रसिद्धिं गतः सर्वेष्वलङ्कारग्रन्थेषु मूर्धन्यतामधिगच्छति । तदनन्तरमन्येऽपि लक्षणग्रन्थाः शनैः शनै प्रादुरभूवन् । 'सौन्दर्यमलङ्कार' इति वामनोक्तालङ्कारलक्षणानुसारतोऽप्यलङ्कारशब्दस्य दोषाभावगुणालङ्कारकृत सौन्दर्य परत्वेन तत्प्रतिपादकं शास्त्रं 'अलङ्कारशास्त्र' मिति स्थाने सङ्केतमासाद यति । तदनुसारेणैव तादृशशास्त्रप्रणेतार आर.ङ्कारिका उच्यन्ते ! तथाविधं शास्त्रमुपजीव्य लक्षणलक्षितानि बहूनि काव्यानि बहुभिर्नि