SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १३५ ५.९३-१४५] छन्दःशेखरः मदनविलासोऽयं कथ्यते । चलन(रण)विपर्यये सति ॥ १२० ॥ ओजे रुद्रमात्राः । युजि षोडश विद्याधरललिता ॥ १२१॥ व्यत्ययेन विद्याहरहासः । छन्दोविद्भिरभाणि ॥ १२२ ॥ एकादश विष[म]योः । सारङ्गो युजोः कलाः सप्तदश ॥ १२३ ॥ कुसुमायुधशेखरो विपर्यये । चपददपचद्विचतैः ॥ त्रिविधैकादशमात्रे पादे हि। भेदा द्वादशोक्ताः ॥ १२४ ॥ मात्रास्त्रयोदशाद्याः स्युयुजोः सप्तदशावधि । ओजयोर्दादशैवेयं दशधांहिविपर्ययात् ॥ ३२५॥ द्वादशौजे त्रयोदश । कामिनीहासो विषमे ॥ १२६ ॥ अस्य चलन(रण)विपर्ययेण । भवतीहोपदोहकः ॥ १२७ ॥ ओजे द्वादश समे च । त्रयोदशावदोहकमिह ॥ १२८॥ अवदोहकपादोत्क्रमे । दोहको द्विपथकः [वा] ॥ १२९॥ ओजे द्वादश समेऽथ । पञ्चदश ताः प्रेमविलासः ॥ १३० ॥ अस्य पादविपर्यये कृते । प्रोक्ता चन्द्रलेखिका ॥ १३१॥ असमे द्वादश मात्राः । युग्मे षोडश काञ्चनमाला ॥ १३२ ॥ काञ्चनमालापादोत्क्रमेण । सुतालिङ्गनकं भवेत् ॥ १३३ ॥ ओजो(जे) द्वादश मात्राः । समे सप्तदश जलधरविलसिता ॥ १३४ ॥ चलन(रण)विपर्यये कृते प्राज्ञै- । रभाणि कङ्केल्लिलता ॥ १३५॥ त्रिचषचदद्विपदचपतैः । चतुर्विधार्ककलस(प)दे दशधेति ॥ १३६ ॥ त्रयोदशौजयोर्मात्रा युजोः सप्तदशान्तिकाः । चतुर्दशादिकाः शेषाः पादव्यत्ययतोऽष्टधा ॥ १३७॥ . अभिनवमृगाङ्कलेखा तु । त्रयोदशायुजि युजि मनवः ॥ १३८॥ कुसुमितकेतकी(कि)हस्तः । अस्य पादविपर्ययेण ॥ १३९ ॥ त्रयोदशौजे पञ्चदश । युजि सहकारकुसुममञ्जरी ॥ १४० ॥ 'अनयोश्चरणयोर्विपर्यये । कुञ्जरविलसितं कथितम् ॥ १४१ ॥ कामिनीक्रीडनकमयुजि । कलास्त्रयोदश युजि षोडश चेत् ॥ १४२॥. विद्वद्भिरकारि राजहंसः । व्यत्ययेऽनयोः पादयोः ॥ १४३ ॥ ओजे त्रयोदश मुनिदश । समे कामिनीकङ्कन(ण)हस्तकः ॥ १४४ ॥ विपर्यये पल्लवच्छाया भवेत् । द्विपतद्विचपषचतैरिति । त्रिविधत्रयोदशमात्रपादेऽत्र । कथिता अष्टौ प्रभेदाः ॥ १४५॥ ....१ Ms. has कङ्केलिलतेति.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy