________________
छन्दोदर्शनम् ब्रह्मैवानु प्रभवस्यय इवाग्नि
गि विदा प्रतिमा ब्रह्मणः सा परी ॥२॥ पदपाठ :- सरस्वति । त्वम् । रसैन । साम्ना । आत्मानम् ।
पुरुषम् । स्वम् । ब्रह्म । सम् । अनु । एषि । सत्यम् ॥ ब्रह्म । एव । अनु । प्रऽभवसि । अर्यःऽइव । अग्निः । वाक् | विदा । प्रतिऽमा । ब्रह्मणः । सा । परी ॥
Oh Sarasvati ! you stand united in full harmony with your Ātman or Purusha, which is the Truth or Brahma. You become one with Brahma himself like iron which becomes one with fire when heated. You are indeed the personification of Brahma, the Great.
अन्वयभाष्यम् । हे सरस्वति ! त्वं साम्ना समेन रसेन स्वमेव आत्मानं सन्तं परमं पुरुषं तं ब्रह्म ब्रह्मस्वरूपं सत्यं सत्यात्मकं समन्वेषि तत्समन्वयेन सामरस्येन प्रतितिष्ठसि, तत्राय दृष्टान्त:यथा अग्निना समन्वितं अय: स्वयमपि अग्निरेव भवति, तद्वत् त्वमपि तत्पूर्णात्मकसत्यब्रह्मवस्तुसमन्वयेन प्रत्यक्षं ब्रह्मैव सती सर्वत्र प्रभवसि ब्रह्मशासनरूपत्वाद् वेदवाचः, तस्मात् हे वाक् ! सा त्वं तस्य परब्रह्मणः पूर्ण प्रतिमानं तत्समानं तुल्यं प्रमाणं प्रत्यक्षं हि तत्प्रतीकमेव असि इति ॥
COMMENTARY-SUMMARY TRANSLATION
Oh Sarasvati ! you who are similar to Átman in essence, unite with the Truth, the Purusha which is Brahma, the eternal. You are one with Him. For example, iron becomes fire itself when heated. So, you too become Brahma. Therefore, you are in fact Brahma in the visible form. You are His equal in every way. You are His very image.
तृतीया ऋक् । सरस्वति त्वं प्रत्यक्षं ब्रह्म सती परमेवानु स्वरसि ब्रह्म सत्यम् ॥ प्रत्यगेवानु तत् स्वयं भवसि त्वं वाग् विदा प्रतिमा ब्रह्मणः सा परी ॥ ३ ॥