________________
छन्दोदर्शनम्
53
COMMENTARY-SUMMARY TRANSLATION He, as a quickener, quickens the Pranas internally, which are in all and everybody. Like-wise, externally, in all the ten directions he roars with powers of his knowledge and echoes back finely and grossly in the form of voice, sound etc. That is the characteristic of Rudra as Rudra. He is there always as an invisible force. He is, though a lord of mid-air, the lord of all and everything. That is the light which illumines all and everything. It is the excellent light which is the light par excellence, the Bhagavān Rudra.
अत्रायं विशेषः
तस्य एकादशात्मनः रुद्रस्य भगवतः तत् परममं तात्त्विकं स्वरूपं अन्यत्र विशिष्टं अनुश्रूयते, तथा हि "प्रभ्राजमानाना ५ रुद्राणा५ स्थाने स्वतेजसा भानि" (ते. आ.) "प्रभ्राजमानीना रुद्राणीना५ स्थाने स्वतेजसा भानि" (ते. आ.) इत्यादिकमारभ्य पूर्वाद्यासु अष्टसु दिक्षु तथा ऊ-अधरा-मध्यमासु च इत्येवं एकादशसु दिक्षु प्रतिष्टितानां “ रुद्राणां एकादशानां रुद्राणीनां च तच्छक्तिरूपाणां पृथक पृथक् तत्तद्विशिष्टस्वरूपतत्त्वबोधिकाभिः विशिष्टसज्ञाभिः तदेकादशात्मकं ज्योतिःस्वरूपतत्त्वं समर्थितं अनुश्रयते ॥
ताश्च सज्ञाः एताः प्रसिद्धाः (१) प्रभ्राजमानाः, (२) व्यवदाता:, (३) वासुकिवैद्युताः, (४) रजताः, (५) श्यामाः, (६) कपिला:, (७) लोहिताः, (८) अति:लोहिताः, (९) ऊवाः, (१०) अवपतन्तः, (११) वैद्यता: । इति च, एत. सज्ञाः तच्छक्तीनां रुद्राणीनामपि समाना एव भवन्ति ॥
तथा त्रिषु भुवनेषु तेषां एकादशानां रुद्राणां प्रतिष्ठानात् एकस्यैव तस्य रुद्रस्य त्रयत्रिंशद्देवतात्मकत्वं प्रतिज्ञायते, तथा च प्रसिद्धः ऋमन्त्रवर्णः -"ये देवासो दिव्येकादश स्थ पृथिव्या मध्येकादश स्थ ॥ अप्सुक्षितो महिनैकादश स्थ ते देवासो यइमिमं जुषध्वम् ||" इति (ऋ. मं. १-१३९-११)॥ तद्वदेव रुद्रस्य तस्य सर्वान्तःसंस्थितिरपि उपस्तूयते, " अन्तरिच्छन्ति तं जने रुद्रं परोमनीषया | गृभ्णन्ति जिह्वया ससम्" इति (ऋ.. म. ८-७२-३)॥
तस्य रुद्रस्य सर्वान्तर्यस्य अन्तर्यामिस्वरूपस्य प्राणात्मता उपदिश्यते, तथा एकादशात्मता च || " दशेमे पुरुषे प्राणाः, आत्मैकादशः” इति (ते. यजुः) ॥
एवमेव रुद्रपुत्रस्य मरुद्रपस्य वायोरपि अन्तरिक्षाधिपतित्वमनुश्रयते, “वायुर्वा अन्तरिक्षस्याध्यक्षः" इति (ते. ब्रा.) ॥ तथा तस्य अन्तरिक्षगृहपतित्वमपि, “वायुर्वे गृहपतिः सोऽन्तरिक्षलोकस्य गृहपतिः” इति (ऐ. ब्रा.)॥
एवमेतस्मिन् अर्थे वायोः वस्तुतत्वे ऋमन्त्रवर्णः “आत्मा देवानां भुवनस्य गर्दा यथा वशं चरति देव एषः॥ घोषा इदस्य शृण्विरे न रूपं तस्मै वाताय हविषा विधेम"