________________
44
छन्दोदर्शनम
अन्वयभाष्यम्। यः पुनः इन्द्रस्य तस्य सखा सन् मित्रभूतः प्रति तत्प्रतिसमानेन चेतसा चेतनेन मनसा सचेतनेन बलेन च वशी स्वतन्त्रः सन् इह अस्मिन् समये प्रपञ्चे यथाकामं स्वातत्र्येण तथा अप्रतिहतगत्या च चरति सर्वत्र सञ्चरति व्यानोति, “आत्मा देवानां भुवनस्य गर्भो यथावशं चरति देव एषः | घोषा इदस्य शृण्विरे न रूपं तस्मै वाताय हविषा विधेम" इति (क. म. १०-१६८-४) मन्त्रवणे तदनुश्रवणं-यथा उपवर्णितम्, यश्च सर्वेषां जगतां बहिर्धा बाह्यः प्राणः ज्यायान् ज्येष्ठः, सः मध्यमलोकाधिष्ठाता वायुः सहसा इन्द्रवान् इन्द्रसहितः बलेन इन्द्रसमानो भवति, तद्योगादेव, तथा च उपवर्णितं मन्त्रवर्णे तयोः समानरूप त्वम्, “मन्दू समानवर्चसा” इति (ऋ. म. १-६-७)॥
COMMENTARY-SUMMARY TRANSLATION
Again he is a friend of Indra. By activity, mind and strength, he is his equal. He is independent. So, with independence, without any hindrance, he moves everywhere: Cf. “ This God moves about as he likes" (Rg. X-168-4). He is further the exterior Prana (as which he pervades everywhere). He is the oldest. He dwells in the mid-air. By strength he is equal to Indra. Cf. “These two are always happy and are equal in splendour" (Rg. I-6-7). They are similar in form also.
तृतीया ऋक् । यो बहिर्धा चरन् वायुरन्तरिक्षे विद्युता यो निर्वहति क्रतुं विश्वम् ॥ योऽन्तर्धा प्राणः प्राणभृतां ज्यार्यान्
वायुः सहसेन्वान् स मध्यमः ॥ ३ ॥ पदपाठः- यः । बहिःऽधा । चरन् । वायुः । अन्तरिक्षे ।
विद्युा । यः । निःऽवहति । ऋतु । विश्वम् । यः । अन्तःऽधा । प्राणः । प्राणऽभृतीं । ज्यायान् । वायुः। सहसा । इन्द्रऽवान् । सः । मध्यमः ॥
Vayu moves externally, in the mid-air. With lightning, he performs every work in the universe. He is the internal Prana of living beings. He is senior and great along with Indra and dwells in mid-air.