________________
छन्दोदर्शनम्
35 नवमी ऋक् । अग्निरयमप्स्वन्तर्हितो ज्योतिषा सो अ॒ ऽभ्य एव जजानामि विद्युता ॥ विद्युत एवापः प्रति प्रजशिरे
मुमग्निमप्सुमन्तं समेधिरे ॥९॥ पदपाठ:- अग्निः । अयं । अप्ऽसु । अन्तरिति । हितः । ज्योतिषा।
सः। अत्ऽभ्यः। एव। जजान । अभि । विद्युता ॥ विऽद्यतः। एव । आपः। प्रति । प्रऽजज्ञिरे ।
अमुं । अग्निं । अप्सुऽमन्तै । सं। एधिरे ॥ This Agni concealed or involved in waters, was reproduced as lightning from the waters themselves. Again the waters were reproduced from lightning, Agni thus became Apsumān (having waters ) and was brought out.
अन्वयभाष्यम् । अप्सु ज्योतिषा रूपेण अन्तर्हितः सन् स एवायं अग्निः ताभ्य: अभ्य एव विद्यता विद्यद्रपेण अभितः ज्योतिःस्वरूपेण सञ्जजान आविर्बभूव, तथा तद् वैद्यतं ज्योतिरुत्पादयामास, तथा तस्याः एव विद्यतः सकाशात् ता: दिव्या: आपः प्रति प्रजज्ञिरे पुनः आविर्बभूवुः, तस्मात् अमुं वैद्यतं अग्निं अप्सुमन्तं एतन्नामानं समेधिरे अप्संहितमेव अभिवृद्धं प्रकाशयामासुः, अत एव सः “ अप्सुमान्" इति वेदे श्रयते, अत्र अलुप्तसप्तम्यन्तेन पदेन समस्तं इदं मतुप्प्रत्ययान्तं पदम् " अप्सुमान्" इति आर्ष छान्दसम् , “ अग्नयेऽप्सुमते स्वाहा” इति सुस्पष्टं यजुर्मन्त्रवणं तथाऽनुश्रवणम् इति ।।
COMMENTARY-SUMMARY TRANSLATION Conealed as light in the waters, this same Agni was produced as lightning all-round, from the waters themselves. Again from lightning, the heavenly waters were manifested. Therefore that Agni in the form of lightningis known as Apsumān, as he came to light in the company of waters.
दशमी ऋक् । अग्निरयं धामसु त्रिषु राजते भूर्भुवः स्व ? महोभः परीतैः ॥