________________
छन्दोदर्शनम
491
सप्तमम् || १५॥ नवर्चमष्टमम् || १६ ॥ अष्टर्चे द्वे || १७-१८ || ":सरस्वती त्वं" द्वये नवर्चमेकादशम् ॥ १९ ॥ द्वादशचं द्वादशम् ॥ २० || इति वै सारस्वतो द्वितीयः ॥२॥
" ब्रह्मणस्पतिः" अष्टच द्वे ब्राह्मणस्पत्यानि षट्कानि, जागतानि ॥ २१ ॥ " नमो ब्रह्मणस्पतये ” तृतीया पञ्चमी सप्तमी च सास्वताश्च ॥ २२ ॥ " नमो ब्रह्मणे" नवर्च द्वे || २३॥ "ब्रह्मणस्पतिः" त्रये ॥२४॥ अष्टर्च द्वे || २५॥ षष्ठे अयुजां अन्त्यायाश्च ब्रह्मणस्पति:, युजां सरस्वती च ॥ २६ ॥ इति वै ब्राह्वणस्पत्यस्तृतीयः ॥ ३॥
“यो देवानां" अष्टर्चम, ऐन्द्राणि चत्वारि त्रैष्टुभानि तानि ॥ २७ || " यः प्रजानन् अजन्यः ” दशर्चम् , इन्द्रस्यैव तत् पारमैश्वर्यं तुष्टाव ॥ २८ ॥ “यो विश्वेषां" द्वादशर्च द्वे, श्रेयोनिःश्रेयससत्त्वे ॥ २९ ॥ " यद्देवानामृणम्" इन्द्रस्यैवोत्तमर्णत्वम्, स्वस्यैवाधर्मर्णत्वं, अनृणत्वमन्यत: सर्वत: संस्तुवन् त प्रत्यर्थयन् ऋषिरिन्द्रमेव प्रतिपेदे तं शरण्यम् ॥ ३० ॥ " यः प्रजानन् " अष्टचम् ॥ ३१ ॥ “यो विश्वत: सीम्" दशर्चम् || इति वा ऐन्द्रश्चतुर्थः ॥ ४॥
“अयमसौ" दशर्च द्वे, आत्मदैवत्यानि चत्वारि, जागतम् ॥३३॥ “यो जज्ञे" श्रेष्टुभे द्वे || ३४॥ “ यो दिव्यो महस्वान् ” चतुर्दशचम्, छन्दोदर्शनाप्तं तदृषित्वं प्रपश्यन् आत्मानमेवापरोक्षतः प्रतितुष्टावच्छन्दसा ॥ ३५॥ " अयं प्रत्यङ्” अष्टचं जागतम्, आत्मनः चितः तत् सुविज्ञानमृषिस्तुष्टाव भूयः || ३६ ॥ इति वा आत्माधिदैवत्यः पञ्चमः ॥५॥
___“यः प्रजानन् एक एव" अष्टर्चम् , पौरुषाणि चत्वारि जागतानि ॥ ३७ || " यो विश्वत: सीम् " दशर्चम् ॥ ३८ ॥ " पुरुषः सन् " षोडशर्च द्वे || ३९ || " पूरुषोऽसौ" तत् पूरुषस्यैव पूर्णत्वं सत्त्वेनैव तेन प्रतिपूर्ण वैश्वरूप्यं प्रति तुष्टावच्छन्दसा |॥ ४० ॥ इति वै पुरुषदैवत्यः षष्ठः ॥ ६॥
___ " आपो दिव्या:" दशर्चम् , आप्यानि चत्वारि, आद्यमानुष्टुभम् ।। ४१ ।। " अपो देवीः" एकादशर्चम् , त्रैष्टुभानि त्रीणि, अन्त्या जगती || ४२ || “ या सवितुः" अष्टर्चम् , अन्त्ये द्वे जगत्यौ ॥४३॥ “विद्युतो वै" सप्तर्चम, अन्त्यास्तिस्रो जगत्यः ॥ ४४॥ इति वा अब्दैवत्यः सप्तमः ॥ ७ ॥
__“ गावो रसेन" दशर्च द्वे, गावः, आनुष्टुभे द्वे ॥ ४५ ॥ " गावो मातरः" गावः सरस्वती श्रीः सोम इन्द्रः सविता आपः प्रत्यूचं देवताः सप्त, अग्निर्वायुः सूर्य: प्रजापतिश्च अष्टम्याः, गव्यानि पञ्चपवित्राणि रससत्त्वानि सन्ददर्श तत् सकल्पम् ।। ४६ ॥ " नमस्ते देव" अष्ठर्चम् , वैश्वदेव्यम् , जागतानि त्रीणि, सविता वायुरिन्द्रोऽग्निः सोम आप: सरस्वती च प्रत्यूचं देवता:, अन्त्याया इन्द्रो ब्रह्मणस्पतिश्च अनशनं तत् तप: परमं संविधानं सन्ददर्श भूयः, अनशनेनैव व्रतेन तेन समृद्धः तपसा छन्दसा सन्दिदेश || ४७ ॥