________________
22
छन्दोदर्शनम्
विश्वं॑ । यस्मि॑न् । हू॒यते॑ । ह॒विः । ब्रह्म॑णा ।
सः। इत् । अ॒ग्निः । दि॒व्यः । आ॒त्मा । प्राति॑श्रुत्ऽकः ॥
This is Agni who receives oblations intended for gods. He is in the Vedi ( seat of sacrifice ). He carries the oblation to the gods. Oblations are offered to him with mantras. He is certainly Agni, the divine. Verily he is Devatatma. He listens to us. He is Prajapati.
अन्वयभाष्यम् |
सोऽयमग्निरेव हविर्भुक् देव-मनुष्यादिभ्यः दत्तानां सर्वेषां हविषां भोक्ता, अत एव वेदिषत् वेद्यां आहवनीयादिरूपेण प्रतिष्ठितः सन् यः यजमानैः यज्ञकर्तृभिः दत्तं हुतं सर्वं हविः हविर्दव्यं देवेभ्यो नयति समर्पयति, तथैव अध्यात्मं सर्वेषां प्राणभृतां शरीरे अन्तर्हितः अग्निः वैश्वानरात्मकः हविर्भुक् भोक्तृस्वरूपो जीवात्मा प्राणाग्निहोत्ररूपेण दत्तं हविः तत्तदेवेभ्यः प्रणयति, तर्पयति च तान् जीवात्मरूपान् देवान्, अतः एवं यस्मिन् अग्न ब्रह्मणा समर्पणार्थकेन स्वाहाकारान्तेन मन्त्रेण " अग्नये स्वाहा, इन्द्राय स्वाहा, प्राणाय स्वाहा " इत्यादिना विश्वं हविः हूयते स एवाग्निः दिव्यः देवतात्मा प्रातिश्रुत्कः अस्माकं स्तुतिरूपां वाचं प्रतिशुश्रुवान् कः प्रजापतिः ब्रह्मात्मस्वरूपः सर्वदिगवस्थितः परमतेजोमयः सर्वदेवतात्मैव भवितुमर्हतीति ॥
COMMENTARY-SUMMARY TRANSLATION
This Agni is the enjoyer of all the oblations, offered by all gods, men etc. Therefore he sits in the place of sacrifice ( Vedi ) as āhavaniya etc. As such, he receives all sacrifices, takes them and presents them to all gods. Individually (adhyatmam ), he is in everybody as Agni, Vaiśvānara.
Havirbhuk, the individual soul as enjoyer delivers to the gods all oblations given in the form of Praṇagnihotra and pleases them, the respective gods and souls. Therefore, the oblations are given to Agni to be presented to the different gods with mantras, ending with Swaha, as Agnaye swāhā, Prāṇaya swaha etc. He is Agni the divine. He listens and responds to our praises. He is Prajapati, the Brahma, the Creater. He is in all directions. He is all light and the soul of all gods.
सप्तमी ऋक् ।
अ॒ग्निर॒यं दे॒वो दि॒व्यः सन् स॑वि॒ता स्वः१ सद॑नं॒ स्व॒मधि॒ द्योत॑ते॒ परि॑ ॥