________________
488
छन्दोदर्शनम
From the Tapas of the Supreme Soul issued forth mantras and this universe manifested itself in Aditi. That Supreme Soul is to be attained by the realisation that it does exist. That is the light par excellence which illumines the universe.
अन्वयभाष्यम् । रोदितुः वाक्स्वरशक्तेः शब्दायमानस्य यस्य आत्मन: प्रचेतनस्य तपस: प्रज्ञानरूपात् हेतोः अदितौ परमे व्योमनि तत् परोक्षसिद्धं विश्व इदं प्रत्यक्षं सत् प्रसृतं प्रागव्यक्तं सत् तदा आदिसृष्टौ व्यक्तं बभूव, तस्य अस्य परमस्य प्रत्यगात्मनः दर्शयत् अवभासकं विश्वस्य तत् परमं ज्योतिः बृहत् अखण्डं परब्रह्मात्मकं न: अस्माकं सर्वेषामपि सदीक्षया समन्वयतः योगेन साक्षात्कारेण प्रत्युपेयम् प्राप्तव्यमिति || अत्र तस्य चैतन्यज्योतिरात्मन: परमपुरुषस्य रोदितृत्वं, छन्दः सत्त्वेन स्वरितृत्वं, तथा ईशितृत्वं सर्वान्तःप्रवेशितृत्वं च वेदे अनुश्रूयन्ते, " चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य | त्रिधा बद्धो वृषभो रोरवीति महो देवो मा ५ आविवेश" (ऋ. मं. ४-५८-३), " अमर्यो मा ५ आ विवेश" (ऋ. मं. ८-४८-१२) इति, “ अमर्यो मयनासयोनि:” (ऋ. मं. १-१६४-३०), इति च || तथा तस्य स्वतन्त्रेण नित्यसिद्धेन सत्तात्मकेन अस्तित्वेनैव तदनुभावसम्पत्तिः, सम्प्रसादादिसिद्धिश्च भवितुमर्हतीति औपनिषदं तत्त्वम् || “ अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः । अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति” (क. उ. २-३-१३) इति || तच्च बाह्याभ्यन्तरसत्त्वान्वयेनैव सिध्यतीति गम्यते, बहिः सर्वतः समन्वयेन, अन्तस्तु सर्वतः प्रत्यगात्मनि उपरमेण इति विवेकः । तदेतदपि अत्र अन्तिमेन अर्धर्चेण मन्त्रलिङ्गेन अनेन छन्दोदर्शनमुखेन सद्दर्शनमेवेदं सम्पूर्णं भवति इति ॥
___ अत्रैते उपसंहारश्लोकाः ॥ आर्षेण चक्षुषाऽपश्यद् या ऋचस्तप आचरन् । वैश्वामित्रो दैवरातो विश्वामित्र इवापरः ॥ १॥ ता इमा अतिगम्भीराः शुद्धाः परमपावनीः ॥ वासिष्ठोऽन्वयभाष्येण समलङ्कृतवान् मुनिः ॥ २ ॥ इदं ये मन्वते धीरा नवीनं मन्त्रदर्शनम् || गम्भीरं देवरातस्य तेषां नश्यन्ति संशयाः ॥३॥
इति वासिष्ठः गणपतिमुनिः । इति अष्टमेऽनुवाके षष्ठं भाववृत्तं सूक्तम् समाप्तम् || ॥ इति अष्टमः वैश्वदेव्योऽनुवाकः समाप्तः ॥
॥ इतीदं छन्दोदर्शनं सम्पूर्णम् ॥