________________
486
छन्दोदर्शनम
इमे प्राणास्तदस्माकं जगतां
ततो जाता इह जीवन्ति विश्व ॥ ३ ॥ पदपाठ :- यत् । वा । सम् । उत्ऽश्वसितम् । सहसा । इह ।
सवितुः । ततः । तप॑तः । तेजसः॥ इमे । प्राणाः । तत् । अस्माकम् । जगताम् ।
ततः। जाताः । इह । जीवन्ति । विश्व ॥ These life-forces (elan vitale) which animate all living beings born in this world are the outgoing breath proceeding from the effulgence of Savită (sun) in Tapas.
__ अन्वयभाष्यम् । तपतः तेजसः ज्ञानरूपात् तत: सवितुः प्रसवितुः परमात्मनः सकाशात् इह विश्वस्मिन् जगति यद् वा समुच्छ्वसितं आयातीत्यध्याहियते न तु सम्भवतीति श्वासदृष्टान्तसामर्थ्यात्, सहसा इतीदं बलेन श्वसितस्य उपलक्षितविशेषणम्, तत् अस्माकं शरीरभृतां इमे आन्तर्याः प्राणा:, जगतां चेष्टमानानां शरीरिणाम्, इह जाता: विश्वे प्राणभृतः ततो जीवन्तीति ||
COMMENTARY-SUMMARY TRANSLATION Savita (the sun) performs Tapas-that is, he meditates. On account of that there is brilliant effulgence. That is as it were his outgoing breath. Out of that all life-forces are born which create and sustain living beings on earth.
चतुर्थी ऋक् । यत्र तत् तेजः परमं पुरस्तात् स्वयमन्तरिह पूर्ण परीतम् ॥ सा नौ माता प्रसवित्री बृहती
विश्वमिदं बिभर्त्यदितिर्ग: ॥४॥ पदपाठः – यत्र । तत् । तेजः । परमम् । पुरस्तात् ।
स्वयम् । अन्तः । इह । पूर्णम् । परि । इतम् ।। सा। नः । माता । प्रऽसवित्री । बृहती । विश्वम् । इदम् । बिभर्ति । अदितिः । गर्भे ॥