________________
484
छन्दोदर्शनम
indwelling soul. He is the Creator and therefore our Father; he is certainly our supporter and protector. He gathers us back into himself at the end.
द्वितीया ऋक् । इयं नौ धात्री पृथिवी परस्ता
भ्योऽनुसम्भूता या साकमन्नैः ॥ तेजसो या वा प्रजातास्तपत
स्ता एता आपोऽमृतं पवित्र नः ॥२॥ पदपाठः - इयम् । नः । धात्री । पृथिवी । परस्तात् ।
अत्ऽभ्यः । अनु । सम्ऽभूता । या । साकम् । अन्नैः ॥ . तेजसः । याः । वा । प्रजाताः । तप॑तः ।
ताः । एताः । आपः । अमृतम् । पवित्रम् । नः॥ This earth which is the support of all was born of waters, along with all kinds of food. These waters were indeed born of the powerful effulgence of His Tapas. These waters are sacred ambrosia to us.
अन्वयभाष्यम्। इयं पृथिवी नः अस्माकं सर्वेषां प्राणभृतां धात्री पोषयित्री धारयित्री च माता इति सर्गप्रकरणात् लभ्यते, या अन्नैः साकं अद्भ्यः सकाशात् एव सम्भूता प्रादुर्बभूव, परस्तात् आकाशादिभ्य: सर्वभूतेभ्यः अर्वाक्, अत्र ओषधिवनस्पतीनां सङ्ग्रहणार्थं अन्नैरिति बहुवचनम् | तैत्तिरीयाः पृथिव्याः ओषधिवनस्पतीनां अन्नस्य च पार्थक्यमामनन्ति सर्गप्रकरणे, “ अद्भ्यः पृथिवी | पृथिव्या ओषधयः ओषधीभ्योऽन्नम्” (तै. ब्र. उ. १) इति ॥ छन्दोगास्तु अन्नात् न पृथक् पूर्वद्रव्यद्वयं मन्यन्ते, "ता आप ऐक्षन्त बह्वय: स्याम प्रजायेमहीति ता अन्नमसृजन्त, तस्माद् यत्र क च वर्षति तदेव भूयिष्ठमन्नं भवति, अभ्य एव तदध्यन्नाद्यं जायते" (छां. उ. ६-२-४) इति । अत एव तदपेक्षया मीमांसितं निर्णीतं च ब्रह्ममीमांसायाम्, “पृथिवी अधिकाररूपशब्दान्तरेभ्यः" (ब्र. सू. २-३-१२) इति | अत्र ऋषि: दैवरातस्तु पृथिवीमविभाज्य अन्नविशिष्टां पश्यति, न च अन्नात् पृथक् ओषधिवनस्पतीन् इत्येव विशेषः॥ विश्वसृष्टये तपतः ईशस्य तेजसः अग्नि-सूर्य-विद्युदादिरूपात् याः आपः प्रजाता: प्रादुर्बभूवुः, " अग्नेरापः” (तै. ब्र. उ. १) “तत् तेज ऐक्षत बहु स्यां प्रजायेयेति तदपोऽसृजत" (छां. उ. ६-२-३) इति च तदनुश्रवणम् ॥
ताः एताः प्रत्यक्षसिद्धा: आपः प्राणसत्त्वपूर्णाः रसमय्यः नः अस्माकं अमृतं उपजीव्यत्वात्, पवित्रं शोधकत्वात्, दोषादिपावनसमर्थाः इति यावत्, ईश-तेजसो: सम्बन्धोऽत्र