________________
छन्दोदर्शनम्
467 वृषभः सतामसि" (ऋ. मं.) इति तदनुश्रवणम् , " मुखादिन्द्रश्चाग्निश्च" (ऋ. मं. १०-९०-१३) इति च तयोः सहयोगेनैवाविर्भावः अनुश्रूयते ॥
तेन ज्योतीरसात्मानौ मुख्यौ वाक्सत्त्वमुखौ च सन्तौ तौ एकरूपौ द्विदेवत्यसत्त्वेन “इन्द्राग्नी " भवतः, त्रिष्वपि भुवनेषु समानभावेन व्याप्तियोगात् ॥ तथा च ऋङ्मन्त्रवर्णः -- “यदिन्द्राग्नी अवमस्यां पृथिव्यां मध्यमस्यां परमस्यामुत स्थः” इति तदनुश्रवणम् ॥ सोम: स: दिव्यः रसात्मा मनस: अधिपतिः सन् स्वय: मनःसत्त्वः हृदय्यः अन्तर्हृदयसन्निष्ठः प्रसिद्धः वेदेषु, "चन्द्रमा मनसो जातः" (ऋ.मं. १०-९०-१३) " मनश्चित्-मनसस्पतिः” (ऋ. म. ९- ) इति मन्त्रवर्णः, “ हृदयान्मनो मनसश्चन्द्रमाः", " चन्द्रमा मनो भूत्वा हृदयं प्रविशत्" (ऐ. उ.) इति च ब्राह्मणम् ॥ “चन्द्रमा मे मनसि श्रितः | मनो हृदये" (तै.) इति च यजुः ॥ एवमेतौ मिथः संसक्तौ मुखहृदयस्थानौ मध्यमोत्तमभुवनाधिष्ठानौ च सन्तौ इन्द्रासोमौ स्वेन ज्योतीरससत्त्वेन इदं आत्मीयं विश्व मृळयतामिति || तदेतदेव तयोर्महत्त्वम्, “इन्द्रासोमा महि तद् वां महित्वं युवं महानि प्रथमानि चक्रथुः ॥ युवं सूर्यं विविदथुर्युवं स्व१विश्वात मास्यहतं निदश्च" (ऋ. मं. ६-७२-१) इति तदनुश्रवणम् ||
COMMENTARY-SUMMARY TRANSLATION
This Agni is energy united with light and Väk, and the mouth, the place where he ( she) manifests himself. He is Indra, the lord of the mid-air, with his own power which manifests itself as lightning; Cf." From the mouth of the Supreme Indra and Agni, Purusha was born" ( Rg. X-90-13). From this it is clear that these two are of the same origin. But being independent, they are known separately as Indra and Agni. Further, they pervade the whole of the three worlds. Cf. "Indra and Agni are in this lower earth, in the mid-world and in the highest world as well."
Soma is full of essences and the lord of the mind. He dwells in the heart. Thus they are (Indra and Soma) united jointly. Dwelling in the mouth and heart and in the mid-world and in the highest world, may these two, Indra and Soma bless their universe. Cf. “Oh Indra and Soma, that greatness of yours is worthy of worship. You did all the great things at the beginning of creation. You two brought forth the sun and the sky. You two killed all darkness and the wicked ones as well” (Rg. VI-72-1).
अष्टमी ऋक् । अग्निर्दिव्यो ज्योतिषाऽभ्यश्नोति विश्व सोमः स्वेन रसैन दिव्येनात्मना ॥