________________
460
छन्दोदर्शनम् पदपाठः - अग्निः । देवः । देवानाम् । मुखम् । हविःऽभुक् ।
सोमः। दिव्यम् । हव्यम् । अमृतम् । तत् । अन्नम् ॥ दैवते इति। ते इति । विश्वेषाम् । तनूः । प्रत । ऋते इति ।
तौ । अग्नीषोमौ । मृळयताम् । स्वम् । विश्वम् । Agni is god; he is the mouth of the gods as he is the one who consumes the oblations. Soma is the celestial god; he is the oblation and Ambrosia, the celebrated food. These two gods are pervading the bodies of all. May these Agni and Soma gods render this universe which is their own body happy and blissful.
अन्वयभाष्यम्।
सोऽयं अग्निः देवः स्वयं देवतात्मा तेजोमयः, तथा देवानां सर्वषां मुखं मुखस्थानीयः, अत एव हविर्भुक् सर्वदेवतानां हविषां भोक्ता, तस्मात् सर्वेषां देवानां कृते यज्ञेषु अग्निमुखे एव सर्वाणि हवी षि हूयन्ते । “यच्चिद्धि शश्वता तना देवं देवं यजामहे । त्वे इधूयते हविः" इति तदनुश्रवणम् | सोमः दिव्यं हविः हविःस्वरूपः, भोग्यरूपः, अमृतं अमृतरसात्मा, तत् परं श्रेष्ठ अन्नम्, ते इमे दैवते देवतात्मके तथा भोक्तृ-भोग्यस्वरूपे मिथः संसृष्टे सती विश्वेषां प्राणभृतां विश्वाः तनूः शरीराणि प्रत्युते प्रतिगते सम्प्राप्ते भवतः, तौ दिव्यौ अग्नीषोमौ देवतात्मानौ स्वीयं इदं विश्वं सुखयताम् इति ||
___अत्र अयमग्निः सर्वषां अस्माकं अन्तःशरीरे वैश्वानररूपेण सिद्धः सन् हविषां भोक्ता भवति, सौम्यं सोमदैवत्यं अन्नमेव भोग्यमन्नं हविः इति विशिष्टं अध्यात्म तत्त्वम् ॥ अस्मिन् अर्थ ऋङ्मन्त्रदर्शनं भवति विश्वामित्रायम्, “अग्निरस्मि जन्मना जातवेदा घृत मे चक्षुरमतं म आसन् । अर्कस्त्रिधातू रजसो विमानोऽजस्रो धर्मो हविरस्मि नाम" (ऋ.मं. ३-२६-७) इति, “ त्रिधातुरर्को रजसो विमानः अजस्रं ज्योतिहविरस्मि सर्वम् " इति, " अग्निरन्नादः", " एष ह वै सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति" (छां.उ. ५-१०-४) इति च तदनुवचनम् ॥ "अहमन्नम् ३, अहमन्नाद: ३, अहमन्नमन्नमदन्तममि" (तै. भृ. उ. १०-६) इति च तदनुश्रवणम अध्यात्मतत्त्वोपबृंहितम् ॥
COMMENTARY-SUMMARY TRANSLATION Agni is himself a god and is lustrous. He is the mouth of all the gods. So, he consumes all the oblations offered to the various gods. Therefore, all the oblations to various gods are offered through the mouth of Agni. Cf. “Whatever permanent oblations we offer to each god, all those are offered through you only" (Rg. I-26-6). Soma is known as an oblation of nectar. Therefore, it is an excellent and the best food. These two gods (Agni and