________________
19
छन्दोदर्शनम् . 19 अस्माकं य उदोऽन्तरः पचनः ....
स इग्निर्विश्व आत्मा समिज्यते ॥३॥ पदपाठः- अग्निः । अयं । वैश्वानरः। विश्वऽथा । आऽत :।
विश्वेषु । एव । नरेषु । अन्तरिति । प्रति । प्रऽविष्टः ॥ अस्माकै । यः । उदयः । अन्तरः । पंचनः।
सः । इत् । आग्निः। विश्वः । आत्मा । सं। इज्यते ॥ This Agni is Vaišvånara and is all pervasive. He has entered into the whole creation and all the men. That which is in our stomach as digestive power is Agni himself. He is the universal soul. He is worshipped as the soul of everything.
अन्वयभाष्यम्। ___ अयं अग्निः वैश्वानरः नाम्ना स्वेन रूपेण गुणेन कर्मणा च, विश्वथा सर्वथा आततः समन्ताद् व्याप्तः, बहिरपि तेजःस्वरूपेण, तदिदं सामान्यतः वैश्वानरस्य स्वरूपमाह, तथैव एतेषु विश्वेषु नरेषु अन्तः प्राणभृत्सु अन्तः शरीरे प्रविष्ट: चेतनात्मरूपेण, तस्मात् सः वैश्वानरः इति प्रसिद्धः वेदोपनिषदादिषु, “न तं विदाथ य इमा जजानान्यद् युष्माकमन्तरं बभूव" इति (ऋ. मं. १०-५-७) मन्त्रवर्णादपि तदेव सिध्यति, अपि च अस्माकं विश्वेषां नराणां आन्तयः यः उदयः जाठराग्निः पचन: अन्नरसादिपरिपाककारणीभूत: पचनाग्निः, सोऽयं वैश्वानरो नामतः, स एव अयं विश्वात्मा इति समिज्यते पूज्यते, विश्वरूपः इति स्तूयते इति ॥
COMMENTARY_SUMMARY TRANSLATION By name, form, quality and function, he is Vaiśvānara. He is pervading all in every direction completely, even as external light. That is the common form of Vaišvānara. Likewise, he has entered into all the living beings as the soul as evidenced by a Rk: "You do not know him who created all these and who is something within you" (Rg. X-5-7). Further, he who is in our stomach, responsible for all digestion of all we eat, is Vaišvånara. It is he that is worshipped as the universal soul and is praised as Omnifarious.
चतुर्थी ऋक् । अग्निरयं वैश्वानरो ने आत्मा हृदय्यो इन्तरमृतः प्रचेतनः।