________________
446
छन्दोदर्शनम
अन्वयभाष्यम् । हे अग्ने ! देव ! होत: ! देवानां आह्वान-हविहवनादिकर्तः! हे विश्पते ! प्रजानां अधिपते ! तुभ्यं व्रतपतये सत्य-मौन-शुचि-अनशनादिरूपाणां सर्वेषां यज्ञियानां व्रतानां अधिपतये स्वयं तत्समानव्रताय अग्नये तुभ्यं नमः अस्तु । एतेन अग्निरेव व्रतपतिः, तथा यजमानवत् तद्यज्ञसिद्धये स्वयमपि व्रती इत्युक्तं भवति । एतस्मिन् अथ बहवः ऋग्-यजुमन्त्राः सन्ति-" त्वमग्ने व्रतपा असि देव आ मर्येवा । त्वं यज्ञेष्वीड्यः" (ऋ. मं. ८-११-१) इति, “अग्निः शुचिव्रततमः" (ऋ. मं.८-४४.२१) इति च ऋचः ॥ " अग्ने बतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् ” (ते.) इति दम्पत्योः यज्ञीयव्रतग्रहणे समिधाधाने यजुर्मन्त्रः ॥ एवमेव अग्नि-यजमानयोः समानं यज्ञीयव्रताश्रयणानुश्रवणम्- अग्ने व्रतपते त्वं व्रतानां व्रतपतिरसि० सहनौ व्रतपते व्रतिनोर्ब्रतानि" (ते. सं) इति ॥ तस्मै यज्ञीयव्रतबद्धाय वेदिषदे यज्ञसिध्यै यज्ञवेद्यां प्रतिष्ठिताय तथा वेदिरूपायां समग्रायां पृथिव्यां अन्तः तपसा तेजसा प्रज्वलते सक्ष्मेन तेजसा स्वयं प्रदीप्ताय ते नमः ॥ " इयं वेदिः परो अन्त: पृथिव्याः " (ऋ. मं. १-१६४-३५), " वेदिमाहुः परमन्तं पृथिव्याः " (ते.) इति च तदनुश्रवणम् ॥
तं इमं वैश्वानरं विश्वेषां नराणां अन्तः शरीरवेदिकायां प्रतिष्ठितं एवं अन्तर्बहिरपि सिद्धं तं अग्निं हविषा पयसा घृतेन अन्नेन च त्रिवृतेन ब्रह्मणा मन्त्रेण च समन्त्रकेन स्वाहाकारान्तेन वाचा निजान्तरया अग्निसत्त्वसम्पन्नया अन्तर्बहिरपि अहं यजे तद्यजनमनुतिष्ठामि, एतेन यज्ञेन तथा यज्ञार्थं यज्ञसिद्धयै च अन्तः उपवसन् अन्तनिष्ठः सन् तथा अनशनादिव्रतमाचरन् तं अग्निं यज्ञपतिं प्रपद्ये प्रत्यक्षं प्राप्नोमीति || अस्मिन् अथ यजुर्मन्त्रवर्णः, “ अग्ने व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् | इदमहमनृतात् सत्यमुपैमि" (शु.य. सं.) इति, “अनृतात् सत्यमुपैमि | मानुषाद्देव्यमुपैमि। दैवीं वाचं यच्छामि" (ते. ब्रा.) इति च ॥ तदेतत् सर्वं व्रतं व्रतपति: यज्ञपतिः सत्यं परमं ब्रह्मापि श्रद्धयैव प्राप्तुं शक्यम्, तस्मात् सा परा निष्ठारूपा श्रद्धेव उपवासादिषु यज्ञेषु व्रतेषु च प्रधानं साधनं कारणमिति च सम्पद्यते । " श्रद्धे श्रद्धापयेह नः” (ऋ. मं. १०-१५१-५) “श्रद्धां यज्ञमारभे" (ते. ), " श्रद्धया विन्दते वसु" (ऋ. मं. १०-१५१-४) इति च तदनुश्रावणम् | “व्रतेन दीक्षामाप्नोति दीक्षया दक्षिणां दक्षिणया श्रद्धां श्राद्धया सत्यमाप्यते” (शु. य. सं) इति च ॥
COMMENTARY-SUMMARY TRANSLATION
Oh Agni, salutations to you who are the agent bringing down the gods and giving them oblations; you are the lord of all people, the lord of all vows as well. The Vratas or vows are : true speech, silence, cleanliness, fast etc. You are yourself observing similar vows.