________________
402
छन्दोदर्शनम्
पदपाठः - यन् । वाचा । दुःऽउक्तम् । सुऽधितम् । ममं ।
यत् । मनसा । दुःऽइतम् । जुष्टम् । अन्तरिति । यत् । मे । धीभिः । सम्ऽधृतम् । दुष्टम् । किम् । चित् ।
ताः। आपः । देव्यः । स्वम् । ईम् । माम् । पुनन्तु ॥ From bad words which I might have uttered, from prohibited thoughts which I might have entertained, from the sins which might have been committed by my intellect, may those Water-deities save me and purify me who is their own.
अन्वयभाष्यम्। यद्वा मम देवतोपासनापरायणस्य प्रपञ्चपरमार्थादिसाधननिरतस्य वाचा वागिनद्रियेण दुरुक्तं वचः दुष्टं शास्त्रनिषिद्धं असत्यादिवचनं यत् उच्चरितं भवेत्, तथा दुरुदितं शास्त्रतः दुष्टमिति निर्दिष्टं अत एव पुनः विशेषेण प्रतिषिद्धम्, “न दुरुक्ताय स्पृहयेत् " (ऋ. मं. १-४१-९) इति, तादृशं असद्विषयजातं मे मम मनसा अन्त:करणेन मतं अङ्गीकृतं, तथा धीभिः बुध्यादिभिः सर्वैः ज्ञानेन्द्रियैः सवृत्तिकैः अभि अभितः सर्वप्रकारेण सन्धत्तं सन्धृतं एनः अधःपतनकारणं दोषादिकं यत् स्यात्, तस्मात् सर्वस्मादपि दोषजातात् ता: आपोदेव्यः स्वकीयं ई एनं मां पुनन्तु पावयन्तु इति ||
COMMENTARY-SUMMARY TRANSLATION I, who am devoted to gods, and busy in performing duties both temporal and spiritual might have committed sins of omission and commission by uttering improper words and by my mind thinking prohibited thoughts. It is directed that “one should not indulge in bad words” (Rg. 1-41-9). I might have entertained thoughts about bad or harmful objects. May those Water-deities purify me their own man, and free me from the sins committed by my mind and by all my senses.
सप्तमी ऋक् । यदिन्द्रियैः कर्मणा दुष्कृतं मे यत् कृतं पद्भ्यां दुर्गत ममैनः ॥ पाणिभ्यां यद् दुर्गृभीतं गृहीतं ता आपो देव्यः स्वमी मां पुनन्तु ॥ ७ ॥