________________
400
छन्दोदर्शनम्
चतुर्थी ऋक् । अपो देवीर्यः पृथिव्याः संसर्ज यो अग्निरप्स्वन्तरन्या विवेश ॥ ज्योतिषाऽप्सुमता मा सं सृजन्तु
ता आपो देव्यः स्वमी मां पुनन्तु ॥ ४ ॥ पदपाठः - अपः । देवीः । यः । पृथिव्याः । ससर्ज ।
यः । अग्निः। अप्ऽसु । अन्तरिति । अनु । आविवेश ॥ ज्योतिषा । अप्मऽमता । माम् । सम् । सृजन्तु । ताः । आपः । देव्यः । स्वम् । ईम् । मां । पुनन्तु ।।
Agni created those Water-deities from the earth, and himself entered into them. May those Water-deities unite me with that light of Agni contained in the waters and purify me who is their own.
अन्वयभाष्यम्। य: अग्निः पार्थिवः पृथिव्याः सकाशात स्वस्थानात दिव्याः अपः ससर्ज पर्वतनिर्झरीमुखेन उत्पादयामास, यश्च तासु अप्सु अन्त: ज्योतिषा भौमेन सह अनु अनन्तग्मेव आ समन्तात् सर्वत: विवेश, ताः देव्यः देवतारूपा. आपः तेन निजेन अप्सु-ता अप्सम्बन्धिना ज्योतिषा मां संसृजन्तु, तथा ई एनं स्वकीयं मां पुनन्तु पवित्रीकुर्वन्तु इति ॥
COMMENTARY-SUMMARY TRANSLATION Agni of the earth, created the heavenly waters from the earth in the form of torrents flowing from the mountains. Following them he entered into those waters in the form of heat in the earth. May those Water-deities unite me with that heat and light of Agni (Fire-god) and also purify me who his their own.
पञ्चमी ऋक |
या दिव्या इह धीतिभिर्निहिताः । सुषुम्णैः सह धीभिश्च चितिभिः॥ मातरः पुत्रवि मामुपाप्तास्ता आपो देव्यः स्वमीं मां पुनन्तु ॥ ५॥