________________
396
छन्दोदर्शनम्
दशमी ऋक् । यादित्येनाप्सुहितं तपसाऽपां वृषभेण ।
आपः सन्धत्त तन्मय ज्योतिर्विश्वस्य दर्शयत् ॥ १० ॥ पदपाठ :- यत् । आदित्येनं । अप्ऽसु । हितम् । तप॑सा । अपाम् । वृषभेण ।
आपः । सम् । धत्त । तत् । मयि । ज्योतिः। विश्वस्य । दर्शयत् ॥
May you, Oh Waters ! endow me with the light placed in you by Aditya (the sun), who by burning heat causes rains. That light illumines the whole universe.
अन्वयभाष्यम् । अपां वृषभेण सेचकेन आदित्येन तपसा तपनेन यत अप्सुहितं पोषितं, तत् दर्शयत् विश्वस्य जगतः प्रकाशकं ज्योतिः हे आपः! मयि सन्धत्तेति || अत्र आदित्यस्य अपां वर्षकत्वे दैर्धतमसाषयं ऋमन्त्रदर्शनं भवति- "दिव्यं सुपणं वायसं बृहन्तमपां गर्भ दर्शतमोषधीनाम् | अभीपता वृष्टिभिस्तर्पयन्तं सरस्वन्तमवसे जोहवीमि" (ऋ. मं. १-१६४-५२) इति ॥
COMMENTARY-SUMMARY TRANSLATION Aditya causes rain by tapas, the burning heat. May you endow me with the light placed in you by Aditya, the light which illumines the whole universe.
॥ इति सप्तमेऽनुवाके प्रथमं अप्सूक्तम् समाप्तम् ॥ Thus ends the First Hymn in the Seventh Section.