________________
394
छन्दोदर्शनम्
अन्वयभाष्यम्। __ आग्नेय्यः अग्निदुहितरः हे आपः! इमं मा मां पुनः संस्कुरुत, एनसः पापदोषादिकल्मषात् संशोधयतेति यावत्, य: युष्मासु दिव्यो रसः नित्यं प्रतिष्ठितोऽस्ति, तं रसं अमृतं अमृतसधर्मत्वात् अमृतं भरतेति ॥
COMMENTARY-SUMMARY TRANSLATION Oh Waters ! daughters of Agni, purify me again from the sins and from all the results of imperfection, abnormality etc. There is a celestial essence in you. That essence which is the equivalent of ambrosia, you please fill me with it.
सप्तमी ऋक् । अ॒प्स्वन्तर्भवतीषु मग्नमिममु शन्तमैः।
भेषजैर्मधुभी रसैः पुनर्मा सःस्पृशतापः ॥ ७ ॥ पदपाठः - अप्ऽसु । अन्तरिति । भवतीषु । मनम् । इमम् । ऊम् इति । शम्ऽतमैः ।
भेषजैः । मधुऽभिः । रसैः। पुनरिति । मा । सम् । स्पृशत । आपः ॥
Oh Waters ! I who am immersed in your holy waters, should be again touched by you with pleasant, sweet and medicinal essences.
अन्वयभाष्यम् । भवतीषु पूज्यासु अप्सु अन्तः मग्नं इमं मा मां उशन्तमैः सुखकरैः मधुभिः प्रियत्वात् रसैरेव भेषजैः, हे आप:! पुनः संस्पृशतेति || अस्मिन् अर्थे ऋङ्मन्त्रवर्ण:- "आपश्च विश्व भेषजी" (.मं. १-२३-२०) "आपः सर्वस्य भेषजीस्तास्ते कृण्वन्तु भेषजम्" (ऋ. मं. १०-३७-६) इति च तदनुश्रवणम् ||
COMMENTARY-SUMMARY TRANSLATION I am already immersed in you, oh sacred Waters! With pleasurable, sweet and medicinal essences, Oh Waters ! touch me again. Cf. “The Waters are universal medicines" (Rg. I-23-20 ). "The waters are medicines for all. Let them serve as medicine" ( Rg. X-37-6).
अष्टमी ऋक् । आपो यन् मै दुरुदितं स्मृतं वा यद् दुरिष्टम् । यद् वा कृतं दुष्करण ततः पुनीत विश्वतः ॥ ८ ॥