________________
छन्दोदर्शनम्
तृतीया ऋक। दामि सत्य सवितर्धिया तव व्रतं गिरा ।
त्रीणि ते ऽ मुष्य पदानि यत् प्रथमानि ज्योतींषि ॥३॥ पदपाठः- दधामि । सत्य । सवितः । धिया | तव । व्रतं | गिरा ॥
त्रीणि । ते | अमुष्य | पदानि | यत् | प्रथमानि | ज्योती षि ॥ Oh! Savitā the Truth, I take to your praise and service with my mind and speech. The three first lights which shine are your three names or steps ( Agni on earth, Indra in the sky and Sun in the heavens).
__ अन्वयभाष्यम् । हे सत्य ! सवितः ! सत्यस्वरूप सत्यप्रेरक ! तव व्रतं कर्म, धिया गिरा च दधामि धारयामि स्तौमीति यावत् , तदिदं स्तोत्रं भवति, अमुष्य ते त्रीणि पदानि नामानि, यत् प्रथमानि आद्यानि ज्योती षि वक्ष्यमाणानीति ॥
COMMENTARY-SUMMARY TRANSLATION Oh! Satya Savita, you are Truth and Inspirer of Truth. Your vrata ( service) I undertake with mind and speech, which means, I praise you as follows: Thy three names are the first lights. The names are given in the next mantra.
चतुर्थी ऋक् । अग्निः पृथिव्यां ज्वलति स्वरतीन्द्रस्त्वन्तरिक्षे ।
धीनां विश्वस्य जनिता सूर्य प्र रोचते दिवि ॥४॥ पदपाठः- अग्निः । पृथिव्यां । ज्वलति । स्वरति । इन्द्र : | तु । अन्तरिक्षे ॥
धीनां । विश्वस्य । जनिता | सूर्यः । प्र। रोचते | दिवि ॥
Agni burns on the earth. Indra thunders in the mid-air. The Sun, the father of every mental activity shines in the sky.
अन्वयभाष्यम् । पृथिव्यां अग्निः ज्वलति, अन्तरिक्षे तु इन्द्रः स्वरति शब्दायते अशनिना, विश्वस्य सम्बन्धिनः धीनां जनिता जनयिता सूर्यः दिवि प्ररोचते, कर्मप्रविभक्तानि एतानि त्रीणि नामानि भवन्तीति | अत्र “जनिता मन्त्रो" इति (पा. सू. ६-४-५३) पाणिनि सूत्रात्
CD-2