________________
छन्दोदर्शनम्
fulfilment of sacrifice. He performs all the sacrifices and he is also all that is sacrificed, he is all the oblations. I attain that Purusha by concentration of all mental powers and meditation.
353
अन्वयभाष्यम् |
यः परमः पुरुषः यज्ञः स्वयं यज्ञरूपः यज्ञात्मा च तथा यज्ञपतिः सर्वेषां यज्ञानां अध्यक्ष:, दिव्यः देवतात्मा सर्वयज्ञाधिदैवतात्मस्वरूपः सर्वैः यज्ञैः यजनीयः सम्प्राप्यः इति यावत्—“यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ” (ऋ. मं १०-९०-१६ ) इति तदनुश्रवणम् ॥
16
यश्व अयं आत्मा यजमानः स्वयं यज्ञकर्ता— 'आत्मा यज्ञस्य पूर्व्यः " (ऋ. मं. ९-२-१०) इति तदनुश्रुते: । यष्टा यः स्वयं यज्ञकृत्, तथा यज्ञसाधनः यज्ञसाधक : यज्ञसिद्धिकारणीभूतः इति यावत् || “ यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः ” (ऋ. मं. १०-५७२) इति तदनुश्रवणम् ॥ सोऽयं यज्ञः बहुधा अनुश्रूयते ॥ “ एवं बहुविधा यज्ञा: वितता ब्रह्मणो मुखे " (भ.गी.) " द्रव्ययज्ञास्तपोयज्ञाः ध्यानयज्ञास्तथापरे | स्वाध्याय - ज्ञानयज्ञाश्च यतयः संशितव्रताः” (भ.गी. ) इति ॥ तेषां सर्वेषां यज्ञानामपि चेतनः सोमसत्त्वः आत्मैव प्रथमः याजकः यज्ञसाधक: स्वयं भवतीति सम्पद्यते, 66 गोषा इन्दो नृषा अस्यश्वसा वाजसा उत | आत्मा यज्ञस्य पूर्व्य: ” (ऋ. मं. ९-२-१० ) इति तदनुश्रवणम् ॥
99
66
66
यश्च पुनः अस्मिन् जगति सर्वं यज्ञं विश्वसृष्ट्यादिरूपं यजते स्वयमेव नित्यमनुतिष्ठति स्वकर्तव्यतया समाचरति तथैव पुनः सर्वहुतं सर्वस्वहवनरूपं प्रत्युपसंहृतिलक्षणं यज्ञमपि य स्वयं यजते सर्वमेधसयज्ञस्यापि स एव यजमानः इति भाव ॥ धीभिः ऋत्विक्स्वरूपैः सर्वैरपि आन्तर्यैः धीन्द्रियैः तपसा तद्योगेन यज्ञादिरूपेण तं पुरुषं प्रपद्ये इति, एतेन सः परमः पुरुषः यज्ञैरेव उपप्राप्यः इति गम्यते ॥ " यज्ञेन वाचः पदवीयमायन् " (ऋ. मं. १०-७१-३ ) इति ॥ " ब्रह्मायं वाचः परमं व्योम (ऋ. मं. १- १६४-३७ ) इति || 'यज्ञैरथर्वा प्रथमः पथस्तते (ऋ. मं. १-८३-५ ) इति ॥ यज्ञेनेन्द्रवसा चक्रे अर्वाक् ” (ऋ. मं. ३ ३२-१२ ) इति || " ये यज्ञेन दक्षिणया समक्ता इन्द्रस्य सख्यममृ तत्वमानश (ऋ. मं. १०-६२-१) इत्यादिभिर्मन्त्रवर्णैः सः परमः पुरुषः यज्ञेनैव सम्प्राप्यः इति उपपद्यते || स च यज्ञः तथा यज्ञेन तेन यजनीय: दिव्यो देवतात्मा परमः पुरुषः अपि धीयोगेनैव प्राप्तुं शक्यः इति प्रतीयते, " यस्मादृते न सिध्यति यज्ञा विपश्चितश्चन । सधीनां योगमिवति (ऋ. मं. १-१८–७ ) इति ऋङ्मन्त्रवर्णे तदनुश्रवणं स्पष्टार्थकम् || यस्मात् सदसस्पतेः सर्वसभाध्यक्षात पुरुषाद् विना ज्ञानिनः अपि यज्ञः न सिध्यति | सः पुरुषः धीनां योगमनुसृत्य प्रकाशते इति तदर्थः ॥ स च धीयोग: आन्तर्यविद्वद्यज्ञसम्बद्ध एव | तस्मिन यज्ञे धीन्द्रियाणामेव वाक्प्रभृतीनां ऋत्विकूम्वरूपत्वमनुश्रूयते, - , तथा हि" तस्यैवं विदुषां यज्ञस्यात्मा यजमानः श्रद्धा पत्नी० | तपोऽग्निर्दमः शमयिता दक्षिणा वाग्
99
""
CD-45
-