________________
छन्दोदर्शनम्
333
तृतीया ऋक। य ई स्वरन्तं गुह्यमेवानु स्वरन्
ओमिति स्वरां वाचं समुच्चरति || यो वाऽक्षरं सद् ब्रह्म परमं
परस्मात् पुरुषः स पूर्णः परमः ॥ ३ ॥ पदपाठः - यः । ईम् इति । स्वरन्तम् । गुह्यम् । एव । अनु । स्वरन् ।
ओम् इति । इति । स्वरोम् । वाचम् । सम् । उत्ऽचरंति ॥ यः। वा । अक्षरम् । सत् । ऊम् इति। ब्रह्म । परमम् । परस्मात् । पुरुषः । सः । पूर्णः । परमः॥
While humming secretly the sound or mantra Im, and while imitating the same, he utters.the sacred syllable Om (a vowel). He who is expressed by that word is indeed indestructible, he is Brahma, the supreme. He is the supreme of supremes, a perfect Purusha.
अन्वयभाष्यम्। यः चेतनः आत्मा ई इति स्वरन्तं अनवरतं नादस्वरादिरूपेण संस्फुरन्तं तं गुह्यं प्रणवं तथा तादृशं स्वात्मानमेव वा अनुसृत्य स्वरन् पुनः ॐ इति एतदनुकरणात्मिकां स्वरां सम्यग् व्यक्तरूपेण समुदितां वाचं निजां वाचकशक्तिरूपां उच्चरति मात्रात्रितयात्मिकां अक्षरस्वरूपां वदति, वा अथवा यः पुरुषः स्वयं अक्षरं निजवाचकरूपं सत् सदात्मकं वाक्स्वरूपं प्रत्यक्षं ब्रह्म, तथा तद्वाच्यार्थरूपं परमं ब्रह्म इति वेदे प्रसिद्धः अस्ति, सः तादृशः परस्माद् वस्तुनः अपि सर्वस्मान् परम: पूर्णः पुरुषः इति ॥
____ अत्र अस्मिन् अर्थ ऋमन्त्रवर्णोऽपि उदाहरणार्हः पुन: प्रामाण्याय—“चौ अक्षरे परमे व्योमन् " (ऋ. मं. १-१६४-३९) इति, तथा "ओमित्येकाक्षरं ब्रह्म | अग्निदेवता ब्रह्म इत्याषम् | गायत्रं छन्दं परमात्मं सरूपम् | सायुज्यं विनियोगम् ” इति च औपनिषद यजुः (म. ना. उ. १५-१ ) || " असौ वा आदित्य उद्गीथः एष प्रणवः ओमिति ह्येष स्वरन् एति च औपनिषदं ब्राह्मणम्" (छां.उ. १-६-१), “अथाध्यात्म य एवायं मुख्यः प्राणः तमुद्गीथमुपासीत | ओमिति ह्येष स्वग्न् एति" (छां. १-५-३) इति च तदनुवचनम् ॥
COMMENTARY-SUMMARY TRANSLATION He the Atmā, the intelligent energy, mutters Im, which is the secret Pranava Mantra. Further, following it, he utters loudly Om, so that it may