SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ छन्दोदर्शनम् 327 अन्वयभाष्यम्। ____ यः परमः पुरुषः ज्योतिः स्वयं ज्योतीरूप: सन् अयं विश्वथा विश्वरूपेण अभितः सर्वत्रापि द्योतते प्रकाशते, यस्मिन् परस्मिन् सत्ये आत्मनि प्रकाशमाने अन्यत् विश्वमिदं कि स्वित् किञ्चिदपि न रोचते हि, निश्चयेन स्वसत्तया नैव प्रकाशते, नापि अन्यत् प्रकाशयितुं शक्नोतीति भावः ॥ यः स्वयं एक एव सन् इह बहिब्रह्माण्डे अन्तः पिण्डे च अन्तर्हित: गुप्त: सन् सहसा बलेन चेतते संस्फुरति, तं परमं पुरुषं धीभिः तत्प्रेरिताभिः तपसा विमर्शन तदेकाग्रेण सदनुसन्धानेन प्राप्नोमीति ॥ COMMENTARY-SUMMARY TRANSLATION He is Purusha, the supreme. He is the flaming light himself. As such, He shines all round in all forms. When He who is the very Truth shines, nothing in this universe can shine without His light. This means that nothing shines by itself. He is all alone hidden both in the microcosm externally and internally and also in the macrocosm, and He activises all by His own power. That Purusha, the supreme, I attain with all my intelligence inspired by Him. I attain Him by concentration on him and by getting into touch with Him. षष्ठी ऋक् । यं वाचा वा वदितुं न विप्रा अरं यं प्राणैः स्वरितुं प्राणभृतो नालम् ॥ यं मनसा मन्तुं न मनीषिणोऽर तपसा धीभिः पुरुषं तं प्रपद्ये ॥६॥ पदपाठः – यम् । वाचा । वा । वदितुम् । न । विप्राः । अरम् । यम् । प्राणैः । स्वरितुम् । प्राणऽभृतः । न । अलम् ॥ यम् । मनसा । मन्तुम् । न । मनीषिणः । अरम् । तपसा । धीभिः । पुरुषम् । तम् । प्र । पद्ये ।। Even the wise are not able to describe the Purusha with words. The living beings cannot express Him by breath or sound or show Him in their lives. The intelligent are not able to know Him with their minds. I attain that Purusha by penance and by meditation. अन्वयभाष्यम्। यं अमुं परमं पुरुषं विप्राः ज्ञानिनः वाचा वैखर्या वदितुं उच्चरितुं न अरं अलं याथार्थेन न समर्थाः भवन्ति, यं च मनीषिणः बुद्धिमन्तः मनस्विनोऽपि मनसा अन्त:
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy