________________
छन्दोदर्शनम
325
अन्वयभाष्यम्। य: असौ दिव्यः पुरुषः इदं विश्वं वेद सर्वदा जानाति सर्वज्ञः इति यावत, यश्चायं सर्वान्तर्यामी पुरुषः ब्रह्मणा चेतनेन ज्ञानेन तथा प्रत्यक्षब्रह्मरूपेण शब्दात्मकेन सत्त्वेन मन्त्रमुखेन इगानि विश्वानि भुवनानि जजान जनयामास, मन्त्रोच्छ्रसनमात्रेण आविश्वकारेति भावः, ततश्च एतेषु विश्वेष्वपि भूतेषु भौतिकेषु शरीरेषु च अनु समन्तात् विवेश अन्तर्बहिरपि आपृतः सन् नित्यं प्रतितिष्ठति इति भावः | तं परमं पुरुषं तपसा धीयोगेन च प्रपद्ये इति ॥
COMMENTARY-SUMMARY TRANSLATION He is Purusha, the supreme, who knows everything in and out and always the entire universe. The Purusha, by the power of intelligence and by the power of speech, through Mantra, created all these worlds. He breathed out the mantras and made them manifest by breath alone. Further, He entered into all these living bodies, as well as into all these bodies composed of the elements; He pervaded everything in and out and thus He stays eternally. I attain that Purusha, the supreme by Tapas and by meditation.
चतुर्थी ऋक् । यो विदा ब्रह्म बृहन् यो बृहस्पतियो जनिता ऋचां यो ऋषिः परः सन् ॥ यो वाचो विश्वस्य जनिता सत्पति
स्तपसा धीभिः पुरुष तं प्रपद्ये ॥४॥ पदपाठः – यः । विदा । ब्रह्म । बृहन् । यः । बृहस्पतिः ।
यः। जनिता । ऋचाम् । यः । ऋषिः । परः । सन् ॥ यः । वाचः । विश्वस्य । जनिता । सत्ऽप॑तिः । तप॑सा । धीभिः । पुरुषम् । तम् । प्र । पद्ये ॥
He is the supreme Brahma on account of knowledge. He is BỊhaspati the master of speech. He is the creator of Vedic mantras. He is the seer superior. He is the generator of speech and of the universe. He is the lord of all that exists. I attain that Purusha by Tapas and by meditation.
अन्वयभाष्यम्। यः परमः पुरुषः विदा ज्ञानसत्तया ब्रह्म ब्रह्मरूपः, बृहन् व्यापकः महान्, यः बृहस्पतिः बृहत्याः वाचः अधिपतिः मुख्यप्राणस्वरूप: बृहतीच्छन्दसः पतिः छन्दःपुरुष