________________
286
छन्दोदर्शनम
तृतीया ऋक् ।
य आ॑दित्यस्तप॑सा॒ द्योत॑ते॒ स्व?
यो॑ अ॒न्तरि॑क्षि॒ सह॒सेन्ध॒ इन्द्र॑ः ॥
यः पृ॑थि॒व्या॑ ज्योति॑षा॒ग्नी रोच॑ते॒
स स॑त्या॒ऽयम॒मृते॑ वि॒श्ववे॑दाः || ३ ||
पदपाठः— यः । आ॒दि॒त्यः । तप॑सा । द्योत॑ते । स्वरित स्त्रः ।
--
-
यः । अ॒न्तरि॑क्षे । सह॑सा । इन्धे । इन्द्र॑ः ॥
यः । पृथिव्याम् । ज्योति॑षा । अग्निः । रोच॑ते ।
सः। सत्यः । अयम् । अमृतः । विश्ववेदाः ॥
He as Aditya (the sun) blazes with heat in his own place, that is in the world of light ( the sky ). As Indra, he flashes with strength as lightning in the mid-air. He burns with heat in this world as Agni. He is the truth, he is immortal and omniscient.
अन्वय भाष्यम् ।
यः आत्मा असौ आदित्यः दिव्यः ज्योतीरूपः सन् स्व: स्व: स्थाने निजे ज्योतिर्मण्डले तपसा ज्योतिस्तपनेन औष्ण्येन प्रकाशेन च द्योतते दीप्यते, यः इन्द्रः विद्यदात्मस्वरूपः अन्तरिक्षे मध्यमे भुवने सहसा बलेन सूक्ष्मप्राणसत्त्वेन इन्धे दीप्यते गुप्तरूपेण, य: अग्निः भौमतेजः स्वरूपः पृथिव्यां अस्यां ज्योतिषा प्रत्यक्षेण रूपेण रोचते प्रज्वलति, एवं त्रिषु भुवनेषु बहिरपि अग्नीन्द्रादित्यरूपेण प्रतिष्ठितः सोऽयं अन्तरात्मा त्रिदैवत्यसत्त्वः सन् प्रभवति ॥ एकस्य चिदात्मनः एव इदं दिव्यदेवताविभूतित्रयमिति वैदिकं तत्त्वम्, सः सत्यः अमृतात्मा विश्ववेदाः सर्वज्ञः इति सर्वं समानम् || अस्मिन् अर्थ कुत्सायं ऋङ्मन्त्रदर्शनं प्रत्यक्षं प्रमाणम् :- “आ प्रा द्यावा पृथिवी अन्तरिक्ष सूर्य आत्मा जगतस्तस्थुषश्च” (ऋ. मं. १-११५- १ ) इति ॥
COMMENTARY-SUMMARY TRANSLATION
The Atma in the form of Aditya blazes in his own place, the sky; the sun's orb with heat shines like the light of a luminary. He as Indra, in the form of lightning, flashes with strength as the subtle power of prāṇa in mid-air without being seen by others. He as Agni, actually burns in this world with light. Thus, in the three worlds, He is present in the form of Agni, Aditya and Indra. He, this inner Atma is the triple god. These three gods are the