________________
270
छन्दोदर्शनम पदपाठः - यः । इमा । विश्वा । भुव॑नानि । प्रऽजज्ञे ।
यः। आत्मा । मम । बभूव । सः । अन्तरः ॥ अयम् । विश्वानि । चेतसा । आभि । चष्टे ।
अयम् । तप॑सा । यतते । शम् । गमध्यै ।। He created all these worlds ( out of himself). He became my inner soul also. He sees as witness all the worlds with his mind. In the individual, he tries to attain beatitude through tapas, the power of concentration.
अन्वयभाष्यम्। यः परमः पुरुषः विश्वानि इमानि प्रत्यक्षसत्त्वानि भुवनानि प्रजज्ञे जनयामास आत्मनः सकाशात् चेतनात् तान्येतानि आविश्चकारेति यावत् , एतेन विश्वरूपेण स्वयं आविर्बभूवेति तदभिप्राय: ॥
यः आत्मा चेतनः सः मम आन्तरः प्रत्यङ् बभूव,- सोऽयं अन्तरात्मा चेतसा मनसा सचेतनेन सहज्ञप्तिसत्त्वेन तानि इमानि विश्वानि भूतानि विश्वथा सर्वप्रकारेण अभि सर्वतः चष्टे पश्यति साक्षिरूप: सन् प्रत्यक्षीकरोति, सोऽयं शं परं शाश्वतं आत्मनिष्ठाशान्तिसुखसत्त्वं गमध्यै अधिगन्तुं तपसा केवलेन विमर्शेन यतते संविदा सर्वदा यत्नशील: स्वभावत एवास्तीति ॥ अस्मिन् अर्थे कुत्सार्षयः ऋङ्मन्त्रवर्णोऽपि भवति “वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभि श्रीः॥ इतो जातो विश्वमिदं विचष्टे वैश्वानरो यतते सूर्यण" (ऋ. मं. १-९८-१) इति, “ आ ते भद्रायां सुमतौ यतेम” (ऋ. मं. ६-१-१०) इति च ॥
COMMENTARY-SUMMARY TRANSLATION He is the supreme Purusha, who created these visible worlds, with his own energy and out of himself. He manifested himself as all these worlds. He became my indwelling soul also. The same inner Atma sees with his ever-active mind, these worlds in all their varied forms. He is the all-seeing Purusha and sees them all vividly (pratyakshikaroti). He who is inside me, tries by pure and simple deliberation, to attain supreme and eternal peace. Cf: "He, Vaiśvānara, manifested here, sees the universe and he attempts to unite with Surya" (Rg. I,98-1), "Let me try to attain your auspicious wisdom" (Rg. VI, 1-10).
तृतीया ऋक् । अयं विश्ववेदाः पुरुषोऽयं परोः ऽयं ब्रह्मणा तपस्यत्यन्वजस्रम् ॥