________________
186
छन्दोदर्शनम
अष्टमी ऋक् । सरस्वति त्वद् विश्वतो वितता प्रति नाम्नोत रूपेण द्योतते विश्वरूपा ॥ विश्वथैषा सन्तता पुरुषस्यैव भूतिः
पुरुषोऽनु प्रत्य॒तो वाचा स्वात्म्यं स्वया ॥ ८ ॥ पदपाठ :- सरस्वति । त्वत् । विश्वतः । विऽतता । प्रति।
नाम्ना । उत । रूपेणं । द्योतते । विश्वरूपा ।। विश्वऽर्था । एषा । सम्ऽतता । पुरुषस्य । एव । भूतिः।
पुरुषः । अनु। प्रति । ऋतः । वाचा । सुऽआत्म्यम् । स्वया ॥ Oh Sarasvati ! this glory that has spread all round from you has manifested itself in the form of the universe with name and form. This manifestation of the universe is the ever-existing glory of Purusha Himself. The Purusha, following His own power of speech that is Vāk, becomes one with
Vak.
अन्वयभाष्यम् । हे सरस्वति ! त्वत् त्वत्सकाशात् विश्वतः विश्वरूपेण वितता व्याप्ता, सा इयं भूति: प्रति प्रत्येकशः नाम्ना तत्तदभिधानेन तथा रूपेण तत्तदर्थात्मकेन वस्तुजातेन च विश्वरूपा सती द्योतते प्रकाशते, एवं विश्वथा सर्वप्रकारेण सन्तता विस्तृता एषा भूति: ऐश्वर्यात्मिका विश्वव्यापकशक्तिः तस्य परमपुरुषस्यैव भवितुमर्हतीति यावत्, सः पुरुषः तां वाचमनुसृत्य तया स्वया निजया वाचा सात्म्यं तादात्म्यं प्रत्युतः प्रतिसङ्गत: सन् सविशेष: विश्वरूपः प्रकाशते इति ॥
COMMENTARY-SUMMARY TRANSLATION Oh Sarasvati ! the glory that has spread all round from you is manifested as the universe full of objects with names and forms. The Purusha follows his own Văk and is united with Vak. He shines with attributes and assumes all forms with the help of Vak.
नवमी ऋक् । ब्रह्मणस्पते त्वं परमं ब्रह्म सन् पुरुषः स आत्मा बृहन् स इन्द्रः ॥