________________
xii
तस्मात् तादृशतप:सामर्थ्यराहित्यमेव मन्त्रदर्शनराहित्ये अतृषित्वे च कारणम्, तथैव तादृशमन्त्रदर्शनमेव ऋषित्वे प्रधानं कारणमिति च सम्पद्यते ।
एतेन इदमुक्तं भवति-तपसा मन्त्रदर्शनसमर्थं मूर्धन्यं हृदय्यं च अध्यात्मं दिव्यं यन्त्रं साधनीयम् | तच्च नूतनैः इदानीन्तनैः इतः परमपि साधयितुं शक्यमिति सिद्धम् ॥
इति
वासिष्ठो गणपतिः मुनिः
॥ इति वासिष्ठान्वयभाष्यभूमिका समाप्ता ॥