________________
102
छन्दोदर्शनम्
षष्ठी ऋक् । सरस्वति त्वमीं सदनु स्वरन्ती ब्रह्म प्र णोष्योमिति ब्रह्मणाऽऽत्मनि ॥ अक्षरं तद् ब्रह्मणो बीजं विश्वस्य
वाग विदा वरं ब्रह्म संविदो योनिः ॥ ६ ॥ पदपाठ :- सरस्वति । त्वम् । ईम् इति । सत् । अर्नु । स्वरन्ती ।
ब्रह्म । प्र । नौषि । ओम्ऽइति । इति । ब्रह्मणा । आत्मनि ॥ अक्षरै । तत् । ब्रह्मणः । बीजम् । विश्वस्य ।
वाक् | विदा । वरम् । ब्रह्म । सम्ऽविदः । योनिः॥ Oh Sarasvati! you are IM, and you express the truth. You praise Brahma by the mantra OM within yourself. That letter is Brahma and is the seed of the universe. Oh Vak, by your knowledge you are Brahma and the source of all knowledge.
अन्वयभाष्यम्। हे सरस्वति ! त्वं सत् सत्यस्वरूपं ई इत्यनुकरणात्मकं ईङ्काररूपं स्वरं अनुसृत्य स्वरन्ती शब्दायमाना सती तत् परं ब्रह्म प्रणौषि प्रस्तौषि, ओमिति प्रसिद्धेन ब्रह्मात्मकेन मन्त्रेण आत्मनि स्वस्मिन्नेव अन्तः तत् प्रस्तौषीति पूर्वत्र अन्वयः, तत् अक्षरमेव ब्रह्मणो वाचकं विश्वस्यास्य जगत: बीजं मूलबीजरूपम्, तस्मात् सा वागेव विदा ज्ञानेन तथा ज्ञानार्थं च वरणीय प्रत्यक्षं ब्रह्म, तस्मात् सर्वासां संविदां प्रसवित्री योनिः कारणभूता वागेव भवतीति ॥
COMMENTARY-SUMMARY TRANSLATION Oh Sarasvati ! following the Truth, you say İM. It is all praise of Brahma, the invisible. By that well-known mantra OM, you signify Brahma within yourself. That syllable is significant of Brahma, and further it is the original seed of this universe. You are Vák, you express Bramha, the source of all knowledge.
सप्तमी ऋक् । सरस्वति त्वमक्षरं ब्रह्म सत्यं नैव क्षरसि ब्रह्मणा चिता परा॥