________________
॥ श्री १॥ ॥
लोकद्वारं विदुषां प्रपदनं निरोधो ऽविदुषाम् ॥ छांदोग्य उपनिषध ॥
विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं
विद्या भोगकरी यश:सुखकरी विद्या गुरूणां गुरुः ।
विद्या बंधुजनो विदेशगमने विद्या परं दैवतम्
विद्या राजसुं पूजिता न हि धनं विद्याविहीनः पशुः ॥ नीतिशत४ ॥
कामधेनुगुणा विद्या अकाले फलदायिनी ।
प्रवासे मातृसदृशी विद्या गुप्तं धनं स्मृतम् ॥ वृद्ध यागास्य. ॥ सर्वद्रव्येषु विद्यैव द्रव्यमाहुरनुत्तमम् । अहार्यत्वादनयत्वा दक्षयत्वाच्च सर्वदा ॥ हितोपदेश ॥ केयूरा न विभूषयंति पुरुषं हारा न चंद्रोज्ज्वला
न स्नानं न विलेपनं न कुसुमं नालंकृता मूर्धजाः ।
वाण्येका समलंकरोति पुरुषं या संस्कृता धार्यते क्षीयंते खलु भूषणानि सततं वाग्भूषणं भूषणं ॥ नीतिशत. ॥
वरं गर्भस्रावो वरमृतुषु नैवाभिगमनं
वरं जातप्रेतो वरमपि च कन्यैव जनिता ।
वरं वंध्या भार्या वरमपि च गर्भे च वसति
चा विद्वानूपद्रविणगुणयुक्तोऽपि तनयः ॥ पंचतंत्र ॥ प्रियो मे यो भवेन्मूर्खः स पुराब्दरिस्तु मे ।
कुंभकारोऽपि यो विद्वान्स तिष्ठतु पुरे मम ॥ लोमध ॥
निरक्षरे वीक्ष्य महाधनत्वं विद्यानवद्या विदुषा न हेया ।
रत्नावतंसा कुलटाः समीक्ष्य किमार्यनार्यः कुलटा भवति ॥ सु. २. ला. ॥
न दैवमपि संचित्य त्यजेदुद्योगमात्मनः ।
अनुद्योगेन तैलानि तिलेभ्यो नाप्नुमर्हति ॥ हितोपदेश ॥
अन्नदानं परं दानं विद्यादानमतः परम् ।
अन्नेन क्षणिका तृप्तिः यावज्जीवं तु विद्यया ॥ सु. २. ५. ॥
स्वदेशजातस्य नरस्य नूनं गुणाधिकस्यापि भवेदवज्ञा ।
निजाङ्गना यद्यपि रूपराशि स्तथापि लोकः परदारसक्तः ॥ सु. २. भा. ॥
कृतं त्रिवर्षयत्नेन विधिनतेन पदे पदे ।
आरोग्यतां च व्यापारं अनादृत्य स्थले स्थले ||
ग्रन्थं लक्षितुमर्हन्ति सन्तः सदसदीक्षकाः । हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा ॥