________________
५२ ]
वृत्तमुक्तावल्याम् यथा-कूमककन्दभुजगाधिपदिव्यनालं स्वर्णाद्रिकणिकमुदञ्चितदिग्दलौघम्। भूमीहरिच्छदपरिच्छदमम्बराऽलि श्रीरामचन्द्र भवतो यश एव पद्मम्
॥१६४॥ अथ चक्रपदम्
भाऽनुगकविवरवसुलघुकलितं राजति किमपि सगणयुतिललितम् । तत्पदमखिलविबुधगणभणितं चक्रपदकमिदमभिगुणगणितम्
॥ १६५॥ यथा-सन्ततमपघनसुललितकमला लीलितविलसितविजितसुकमला । - लोचनमुखकरपदशुभकमला भासि तरणिरधितरुणिमकमला ॥१६६।। भ्रमरावलिः
सगणान् कुरु पञ्च विचार्य विशूद्धमते
भ्रमरावलिनामकमेतदुदारगते । जयतीह सुवृत्तमनेककवीन्द्रमतं
कलपञ्चदशाक्षरभूषितपादततम् ॥ १६७ ।। विलसज्जलसज्जलसद्घनवृन्दरुचः
पृथुदानपयोभरनिर्भरसङ्घमुचः । मणिसुन्दरकुम्भमिलद्रविबिम्बभृतः
प्रसरन्ति गजास्तव राघव युद्ध जितः ॥ १६८ ।। सारङ्गी
तिथ्याख्यातप्रोद्यत्संख्या वर्णा यस्याः स्युः पादे
विभ्राजन्ते सर्वे वक्राश्चित्तान्तर्दत्तास्वादे । सारङ्गीति प्रोक्ता सर्वैश्छन्दोविद्भिर्विज्ञाता
पीयूषाक्त : शब्दैरथैर्युक्ता सम्यक्प्रोद्भाता॥ १६६ ॥ अम्भोगभैरुद्गच्छद्गम्भीरध्वानं गर्जद्भिः
प्रायः प्रेयोविश्लिष्टप्राणेशीजीवानर्जद्भिः । रम्भास्तम्भाऽऽकम्पाऽऽरम्भिप्रातर्वातोद्यन्नोदैः'
प्रावृटकालप्राविर्भूतैर्योम च्छन्नं पाथोदैः ।। २०० ॥ १. प्रातर्वातेन उद्यन् (उत्पद्यमानः) नोदः प्रेरणं येषां तैः (पाथोदः)।
यथा
यथा