________________
[ ४७
तृतीयो गुम्फः चन्द्रानना चम्पकचारुगात्रा दृङ्मात्रसंचारितकामयात्रा।
केलाकलालालितकोमलाङ्गी दृष्टया कुरङ्गीनयना निपीता॥१४३।। प्रथोपेन्द्रवज्रा
यदीन्द्रवज्रा लघुवर्णवक्त्रा विधीयते नागपतेनिदेशात् ।
उपेन्द्रवज्रेति तदा कवीन्द्रविरच्यते चारुकवित्वकीत् ॥ १४४ ।। यथा-प्रयुक्तकालागरुधूपिताशं सखीजनोद्भासितपुष्पतल्पम् ।
ज्वलत्सचन्द्रोज्ज्वलवतिदीपं निशामुखे वासकवेश्म भाति ॥ १४५।। अथोपजातिः
यत्रेन्द्रवज्रा प्रथमे तृतीये द्वितीयतुर्योद्यदुपेन्द्र वज्रा।
सा प्राज्ञवर्यैरुपजातिरुक्ता मनोज्ञविच्छित्तिविशेषयुक्ता ॥ १४६ ।। यथा-पाटीरवाटीषु कृतप्रचारस्तरङ्गिणीवारिभवद्विहारः ।
मल्लीलताऽऽलिङ्गनमोदधीरःप्रवाति कान्तेऽद्य सुखं समीरः ।। १४७॥ अथाख्यानकी
आख्यानकी तां प्रवदन्ति नित्यं यदीन्द्रवज्राचरणेन युक्तान् ।
उपेन्द्रवज्रा चरणान् वहेत् त्रीन् विशेषविच्छित्तिमत: कवीन्द्राः ।।१४८ यथा-मामि..................."दाम्बुजन्मनीस्फुरञ्चिदानन्दभर दसौ। .
सुरेन्द्र भोगीन्द्र मुनीन्द्रमानसैरनारतं य .....................।। १४६ ॥ अथ वंशस्थवृत्तम्
उपेन्द्रवज्राचरणेषु चेद्भवन्त्युपान्त्यवर्णा लघवः सुखप्रदाः ।
दिनेशसंख्याक्षरशालिवृत्तकं वदन्ति वंशस्थमिति प्रसिद्धिमत् ॥१५० यथा-नमामि ते नाथ पदाम्बुजन्मनी स्फुरच्चिदानन्दमरन्दसौरभे।
सुरेन्द्र भोगीन्द्रमुनीन्द्रमानसैरनारतं यत्र मधुव्रतायितम् ।। १५१ ।। अथेन्द्रवंशावंशस्थवृत्ते यदि पूर्ववर्णकाः राजन्ति वक्रा: सुखसारहेतवः ।
- ॥१५२ ।। यथा-प्रोद्भूतरक्ताङ कुरवृन्दशालिनः सुपुष्पिता भान्ति रसालशाखिनः ।
वर्मावृताः कार्मुकबाणपाणयो वीरा बतैते स्मरचक्रवर्तिनः ।। १५३॥