________________
द्वितीयो गुम्फः
[ ३५ अष्टचत्वारिंशत् ' कलमुपझुल्लम् । तस्मिश्चोपान्त्यो गुरुरन्त्यो लघुनियतः । यथाचण्डभूजदण्डसदखण्डकोदण्ड (श) शिखण्डशरखण्डझरदण्डितविपक्ष पर्वभृतशर्वरीनाथरुचिगर्वहरसर्वहृदखर्वसुखलीलनवलक्ष । दुष्टनररुष्टतरपुष्टनयजुष्टजनतुष्टमतिघुष्टचरितौघकृतिदक्ष तत्क्षणसमक्षकृतरक्षणसपक्षगणलक्षितसुलक्षण जयेश गतलक्ष ।। ६२ ।।
कलाद्वयाधिक्येन एकोनचत्वारिंशत्कलचरणमपि संभवति, तच्च सुझुल्लनं
नाम।
यथा
चूतनवपल्लवकषायकलकण्ठबलमञ्जुकलकोकिलाकूजितनिदानम् . माधुरीमधुरमधुपानमत्तालिकुलवल्लकीतारझङ्कारसुखदानम् । चारुमलयाचलोद्यातपवमानजवजागरितचित्तभवसायकवितानम् पश्य सखि पश्य कुसुमाकरमुदित्वरं मा कलय मानसे मानमतिमानम् ।।६३॥ चत्वारिंशत्कलमतिझुल्लनपि स्वीकार्यम् । यथाकासकैलाससविलासहरहासमधुमाससविकास सितसारससमानगति शारदतुषारकरसारघनसारभरहारहिमपारदविसारसमुदारमति । बालकमणालमदुमालतीजालरुचिचालितविशालविबुधालयमरालतति राजमृगराजवर राजते तव यशो राम सुरराजसुसभाजितसमाजनति॥६४॥ अथ महाराष्ट्रनामच्छन्दः___यस्य चरणे चतुष्कला: सप्तगणाः किन्तु सप्तमो गुर्वन्त एव । तत एको लघुः । दशभिरष्टभिरेकादशभिश्च यतिस्तन् महाराष्ट्रम् । यथा-हरितनुघनदामिनि कुञ्जस्वामिनि गजगामिनि सुखदासि
नूतन रतियामिनि निरुपमकामिनि राधानामिनि भासि । कमपि प्रियदोषं परिहर जोषं किमु तोषं नहि यासि ? . शृणु मम मुखलापं वचनकलापं परितापं किमु रासि ॥ ६५ ।।
१. अष्टत्रिंशत्, इति युज्यते ।