________________
"यो ह वा प्रविदितायच्छन्दोदेवतविनियोगेन ब्राह्मणेन मन्त्रेण याजयति वाऽध्यापयति वा स स्थाणु वर्च्छति गतं वा पद्यते प्रमीयते वा पापीयान् भवति यातयामान्यस्य छन्दांसि भवन्ति ।"
(छान्दोग्यब्राह्मण ३७५)
"सर्वश्छन्दोभिर्यजेदित्याहुः, सर्वैवं छन्दोभिरिष्ट्वा देवाः स्वर्गलोकमजयंस्तथैवेतद्यजमानः सर्वैश्छन्दोभिरिष्ट्वा स्वर्ग लोकं जयति"
(ऐतरेयब्राह्मण २।३)
कविप्रशस्तिः
मीमांसापरिशीलने पटुमतिः सांख्याब्धिपारङ्गमो
न्यायानर्गलवाक्प्रपञ्चचतुरो वेदान्तसिद्धान्तधीः । काव्यव्याकृतिवृत्तकोषकुशलोऽलङ्कारसर्वस्ववि
च्छीकृष्णः कविपण्डितो विजयते वाणीविलासालयः ।