________________
६६ ]
वृत्तमुक्तावल्याम्
दुग्धोदधिमध्यस्फुरद्विधुमण्डलवासिन् ! कमलासनशोभिततनो परमविलासिन् ! विशदवेदवाणीसुधा[सं]भृतमुखचन्द्रे ! भक्तमनोरथ पूरणानिशनिस्तन्द्रे ! हेषारवनाशितमहादितिजकदम्बे !
भवति निमज्जतु मम हृदयमेकालम्बे ।। २७८ ॥ श्रथ दण्डकजातय उच्यन्ते
षड्विंशत्यक्षरादूर्ध्वं समं पादचतुष्टयम् ।
पिपीडिकादीनुत्सृज्य दण्डकः समुदाहृतः ।। २७६ ।।
पिपोडिकादयो ग्रन्थान्तरे पद्यजातिष्वेव परिगणितास्तेन दण्डकलक्षणे तेषां व्यावृत्तिः । दण्डकेष्वादौ चण्डवृष्टिर्नामदण्डकः ।
तल्लक्षणम्
नगणयुगलशेषतः सप्त रेफास्तदा चण्डवृष्टिः प्रसिद्धो भवेद्दण्डकः । प्रतिपदमनुवृद्धरेफाः स्युरर्णार्णवव्याजजीमूतलीलाकरोद्द । मशङ्खार्कचन्द्रेश भोगीन्द्रपीयूष - वाराहवातादयः । यदि तु लघुपञ्चकाद्यस्तदा चण्डकीलो भवेत् । प्रचितकसमभिधो नद्वयात्सप्तभिर्यैः ।
नगणयुगलतश्चेन्मस्तदास्ततो या यथेच्छं निबद्धास्तदा मेघमाला । नगणयुगल परस्माद्यथेच्छं निबद्धेर्य कारैरयं चण्डवेगाभिधानः । शरमितलघुपूर्वैर्य कारैरयं सिंहविक्रान्तनामा | लघुर्गुरुर्लघुर्गुरुर्यदा मुदा निधीयते तदा पुनर्भवत्यनङ्गशेखरः यत्र वा निधीयते ।
गुरुर्लंघुर्गुरुर्लघुः स उच्यते जनैरशोकमञ्जरीति ।
प्रत्येकं मादिभिः कुर्यात्स्वेच्छया हारमेरुभिः उद्दालः सिंहविक्रीडो मत्तमातङ्गलेखितम् । कुसुमस्तबकं दाम वितानं वर्तुलाचलौ
चण्डो ललित इत्येवं दश भेदा उदाहृताः ॥ स्यात्कामबाणाभिधो दण्डकोऽयं यथेच्छं निबद्धैस्तसज्यैर्गुरुभ्यां च चित्ताभिहारी । यत्र यथारुचि भा विलसन्ति गुरू च स एष भुजङ्गविलासः ।
नगणतश्चेद् गुरुस्तस्य पश्चाद्यदाऽष्टौ तु रेफास्तदा पन्नगेन्द्रः कृतः पन्नगैः । प्रतिपदं पन्नगेन्द्रात्पुना रेफवृद्धया तु दम्भोलि हेलावली - मालती के लि-कङ्कलिलीलाविलासादयः, इति दण्डकलक्षणानि । प्रथ दिङ्मात्रेणोदाहरणानि । तत्रादौ चण्डवृष्टिर्नामदण्डकः -