________________
तृतीयो गुम्फः
[ ६३ यौवनरक्तिमचारुपरागधरा परिगुम्फितसद्गुणजाला भामिनि भाति परं भवती भुवि हेमसरोजमयी नवमाला ॥२६॥ दानवगञ्जन सज्जनरञ्जन हृद्भयभञ्जन मङ्गलदायक मानवतीजनमानविमोचन निर्गतशोचन लोचनसायक । मज़ुलवजुलकुञ्जकुटीविलसद्वषभानुसुतागुणगायक रासविलासकलासमुदञ्चित मामिह पाहि परं वजनायक ।।२६६।। मृदुहासविलासविसृत्वरसौरभलुब्धमधुव्रतसंवलना धृतकोमलकेलिकलाकुसुमावलिरुच्चकुचद्वयसम्फलना । कमनीयलसद्गुणपल्लविता ललिता परितापविनिर्दलनो नवकामनिकुञ्जललामलतेव विभाति विलासवती ललना ॥२६७॥
इमामेव केचिदुर्मिलेति सङ्गिरन्ते । अथ द्वितीयत्रिभङ्गीद्विरुदितवसुलघु चतुरुपचितलघु विरचितभद्विगुवर्णं द्विलवक्रद्वन्द्वसुयुक्त तदनु भगणयुतगुरुयुगकृतरुतमुदितमवद्यविमुक्त फणिराजेनैव निरुक्तम् । इदमनुपमगति बुधजनकृतरति शुभयतिदानविचित्रं हृतचित्तं सत्कविवित्तं धरणिधिषणसम विरचय सुधिषण किमपि मनोहरवृत्तं शुभवाचा वर्णित
वृत्तम्। ।। २६८ ।। यथावलितललितगतिचलितकलितसुखजलधरसुन्दरभासं सविलासं कोमलहासं प्रकटितसुघटनटनपटुनवनटवटतरुसङ्गतरासं कृतलासं केलिनिवासम्। अमितमदनमधुरिममदविदलनपदनखरश्मि विकासं सदुपासं पापनिरासं तमिह कलय मम हृदय भजनरतिकृतमति सङ्गसमासं सुखभासं
मोदितदासम् ॥ २६६ ॥ अथ शालूरच्छन्दः
वक्रद्वयविरचितमुखरुचिपरिचितमथ षडुदितमिति निगमकलं शालूरमवधिपरसगणमुरगवरवदनकमलगतममलमलम् । वृत्तं तदखिलहृदयरुचिरतर(नर) मुचितविरतिभरनिहितबलं जानीहि विबुधवर नृपतिसदसि चर कलय हृदयहरममृतफलम्
॥ २७० ॥