________________
सटीको वृत्तजातिसमुच्चयः
[षष्ठो नियमः एवं नरेन्द्ररहितान्विषमगणान्कुरु गाथायाः। अत्र गाथा उपलक्षणम् । किंच
पढमलहू पत्थारो ठविअन्वो विसममत्ताण ॥२२॥
प्रथमलधुः प्रस्तारः स्थापयितव्यो विषममात्राणाम् ॥ २२ ॥ तिस्रः पञ्च सप्ताद्या विषमास्तासां प्रस्तारः प्रथमलघुः स्थापयितव्यः एतत्प्रायः पूर्वमेव स्थापितं 'मत्ता जत्थ ण पूरइ' (६.२०) इत्यादिना तथापि विस्पष्टार्थं पुनरुक्तम् ॥ २२॥ विपरीतसमुद्रमाह—पढम इति ।
पढमरवाहो चमरं उअरि अ पुरओ जहाकमेणंपि । मग्गट्टिआवि फरिसा विवरीअं जाण सलिलणिहिम् ॥ २३ ॥
प्रथमरवाधश्चमरमुपरि च पुरतो यथाक्रमेणैव ।
मार्गस्थिताश्च स्पर्शा विपरीतं जानीहि सलिलनिधिम् ॥ २३ ॥ यथैव समुद्रप्रस्तारे गुरूणां प्रथमं स्थितिस्तद्वदिह लघूनां कार्या । किं च । मार्गे पश्चाद्भावे स्थिताः स्पर्शाः कर्तव्याः । यथा समुद्रे चतुरधः एवं भूभरणोपबृंहितं (?) विपरीतं सलिलनिधिं समुद्रं जानीहि । यथा त्र्यक्षरे प्रथमं लघुत्रयं स्थापनीयम् । पश्चाद्वितीये प्रथमपादवच्चामरं कार्यम् । पुरतश्च. यथाक्रमेणैव लघुद्वये विहिते द्वितीयस्य आदिगुरुः प्रभेदो भवति योऽसौ समुद्रे सप्तमः । अनन्तरं तृतीये प्रभेदे उपरिस्थितद्वितीयलध्वक्षरस्याधः स्थापिते गुरौ पुनश्च यथाक्रमणैव विनिवेशिते लघौ य आद्यो वर्णः शिष्यते मार्गे तत्र स्पर्शः कार्यः । एवं सर्वत्रेति विपरीतसमुद्रप्रस्तारः ॥ २३ ॥ पातालमाह
संखं ठवेह पढमं पाअंकेणावि गुणह तं हेतु। तथवि अद्धं घेणु तिहि ठाणेहिं विभज्जेज ॥ २४ ॥ संख्यां स्थापय प्रथमं पादाङ्केनापि गुणय तामधः ।
तस्याप्यधं गृहीत्वा त्रिभिः स्थानैर्विभज्यताम् ॥ २४ ॥ सर्वस्यैव च्छन्दसो या वृत्तानां संख्या यथा त्र्यक्षरस्याष्टौ तां प्रथम स्थापय । पश्चात्पादाङ्केनाधस्तामेव गुणय । पादाङ्कः पादपरिमाणम् । इह पादाङ्कस्त्रिकम् । तेनाष्टानां गुणनाच्चतुर्विंशतिर्भवति । ततोष्टौ चतुर्विंशतिश्चेति स्थानद्वयं संपद्यते । अनन्तरं तस्यापि चतुर्विशतेरो द्वादश गृहीत्वा त्रिभिः स्थानैर्विभज्यताम् ॥२४॥
___एए पंच पऐसा मज्झिमअं तिउणअं करेज [इ]ह ।
संखा वण्णा मत्ता लहुगुरुआ होन्ति पाआले ॥ २५ ॥
१ नरेन्द्ररचितां AB. २ प्रथमनवप्रहारः AB. ३ पढमवाराओ AB. ४ प्रथमरवदेधच्चमरपुरतो. AB. ५ प्रथमरवस्याध: चामरं ? ६ तस्सवि Com. ७ गणेहिं AB. ८ तृप्ति: A; तृभिः B. ९ पभेआ Com.