________________
२६
'गामं देतं च कुलं, ममाए पीढफलगपडिबद्धो । घरसरणेसु पवज्जइ विहरइ य सकिंचणो रित्तो ॥ ४॥ नेह दंतकेसरोमे जमेइ अत्थोलोइणो अजओ । वाइ पलिकं इरेगप्पमाणमच्छरइ ॥५॥
सोइ य सव्वराई नीसट्ठमचेयणो न वा झरइ । न पमज्जतो पविसइ निसिहियावस्सियं न करे || ६ ||
१ व्या० 'गामं इति' ग्रामे देशे अथ च कुले 'ममाए इति' ममता विचरति, एतानि मदीयानीति ममत्ववान् पीठफलकेषु प्रतिबद्धः वर्षाकालं विनापि शेषकाले तद्रक्षक इत्यर्थः 'घरसरणेसु इति' गृहाणां पुनर्नवीनकरणे प्रसज्यति प्रसङ्गं करोति चिन्ताकारको भवतीत्यर्थः, विहरति विहारं करोति 'सचिणीत्ति' सुवर्णादिद्रव्यसहितः सन् अहं रिक्तोऽस्मि, द्रव्यरहितो निर्मन्थोऽस्मीति लोकानामग्रे कथयति ॥
२ व्या० 'नह इति' नखा दन्ताः केशा मस्तकसम्बन्धिनः रोमाणि शरीरसम्बन्धीनि च एतेषां द्वन्द्वः तानि'जमे इति' भूषयति अत्थोलशब्देन बहुपानीयेन धावनं हस्तपादादीनां यस्यैतादृशः 'अजओत्ति' अयतनया युक्तः 'बाहेइयत्ति' वाहयति गृहस्थवदुपभुङ्क्ते पश्यङ्कं मञ्चकमतिरेकप्रमाणं प्रमाणातिरिक्तं संस्तारकोत्तर पट्टाधिकमास्तरति सुखशय्यां करोतीत्यर्थः ||२||
३ व्या० 'सोवइय इति' स्वपिति शयनं करोति सर्वस्यां रात्रौ रात्रिप्रहरचतुष्टयेऽपीत्यर्थः निसठ्ठ निर्भरमचेतनश्चेतनारहितः काष्ठवत् शयनं करोतीत्यर्थः, 'न वा झरइत्ति' रात्रौ गुणनादिकं स्वाध्यायं न करोति, रात्रौ रजोहरणादिना भूमिमप्रमार्जयन्नुपाश्रये प्रविशति, नैषेधिक सामाचारीं प्रवेशसमये, निर्गमनसमये चा afra न करोति ॥