________________
सावचूरिकं श्रीगाङ्गेयभङ्गप्रकरणम्
૨૦૧ उद्धरिता विंशतिर्भङ्गाः । किमुक्तं भवति ? एकोनत्रिंशत्तमे भङ्गे, विंशतिमोऽयं संयोगो वर्त्तते, द्वितीये नरके ४, चतुर्थे नरके १, षष्ठे नरके १, सप्तमे २, इति कथनीयम् । अष्टप्रवेशमाश्रित्य केनापि पृष्टं सैकोनचत्वारिंशत्कषोडशशततमो भङ्गः कीदृशो भवति ? ततस्तन्मध्यात् १६३९ नष्टमध्यात् ८८९ निष्कास्यन्ते, शेषाः ७५०, ते पञ्चत्रिंशता ह्रियन्ते, लब्धाः २१, उद्धरिताः १५, एकविंशतितमो भगोऽत्र साधारणपतितः, त्रिभिः साधारणः पञ्चमषष्ठसप्तमसाधारणपतितोऽत एकविंशतिमध्यादेको निष्कास्यते पृथक् क्रियते पञ्चत्रिंशद्भङ्गाः पञ्चदशभिरुद्धरितैर्मीलिता जाताः ५० त्रिसाधारण इति त्रिभिर्भक्ताः १६, षोडश संयोगा उद्धरितौ द्वौ सप्तदशसंयोगे द्वितीयो भङ्गः, किमुक्तं भवति ? विंशतिर्भङ्गा गता उपरि षोडशसंयोगाः सप्तदशसंयोगे द्वितीयो भङ्गो वर्त्तते, द्वितीये नरके १, तृतीये ४, चतुर्थे १, षष्ठे २, सैकोनचत्वारिंशत्कषोडशशततमोऽयं भग ईदृशो भवति इति कथनीयं, चशब्दादादावपि साधारणा भङ्गा पतितास्तदा तेऽपि भङ्गा यावद्भिः साधारणास्तैर्भज्यन्ते, यथा-अष्टप्रवेशे द्विकसंयोगे षट साधारणा भङ्गा भवन्ति, तदा षड्भिर्हियन्ते, यथा-केनापि पृष्टं, अष्टप्रवेशे द्विकसंयोगे चत्वारिंशत्तमो भङ्गः स कीदृशो भवति ? तदा षट साधारणत्वात् षड्भिर्भज्यते लब्धाः ६, उद्धरिताः ४, तदा कथनीयं षट्संयोगा अतीताः सप्तमे संयोगे चतुर्थो भङ्गो वर्त्तते (प्रथमे)७ (पञ्चमे)१ इति कथनीयमित्यादि ज्ञातव्यम् ।। २१ ।।
।। इति नष्टकरणम् ।। अथोद्दिष्टकरणमाह - उद्दिट्ठ तीअभंगा, संजोगगुणा य सहिअ संजोगा । उद्दिट्ठभंगसंखा, इअ कहिआ धीरपुरिसेहिं ।। २२ ।।
व्याख्या - 'उद्दिट्ठ' त्ति उद्दिष्टे सति ये पूर्वे भङ्गा अतीतास्त एकत्र करणीयाः, वर्तमाने संयोगे ये भङ्गास्तेऽपि तैः संयोगैर्गुणाः कर्त्तव्याः किमुक्तं भवति ? वर्तमानाद्भङ्गात्पूर्वं ये भङ्गा गतास्ते भङ्गास्तत्सम्बन्धिभिः संयोगैर्गुणाः कर्त्तव्याः, वर्तमाने भङ्गे ये संयोगास्तेऽपि, ते त्रयोऽपि भेदा एकत्र करणीयाः, एवं कृते-सति या सङ्ख्या भवति, तत्सङ्ख्यो भङ्ग इति उद्दिष्टभङ्गसङ्ख्या धीरपुरुपैः कथिताः ।। २२ ।।