SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ श्रीविचारपञ्चाशिका ૧૫૧ ॥ अर्हम् ॥ ॥ प्रस्तावना ॥ विदितमेतदिह जिनेन्द्रशासने चतुर्खनुयोगेषु द्रव्यानुयोगस्यातिगहनत्वम् । तेन तत्तत्पदार्थरहस्यजिज्ञासूनामिदानीन्तनभव्याङ्गिनामुपकृतये विवाहप्रज्ञप्ति-प्रज्ञापना-जीवाभिगमाद्यङ्गोपाङ्गात्सारं समुद्धृत्य सूक्ष्मविचारगर्भितं स्वोपज्ञावचूरिसनाथं विचारपञ्चाशिकाख्यमिदं प्रकरणरत्नं निबद्धमिति सम्भाव्यते । प्रकरणकर्तृभिश्चात्र प्रकरणे शरीरादीनि नव द्वाराणि निवेशितानि, तत्र प्रथमद्वारे औदारिकादिशरीराणां नवभिः कारणादिद्वारैः स्वरूपनिरूपणं कृतम्, द्वितीयाद्यष्टद्वारेषु पृथक्पृथक् विचाराः सुगमतया व्यावर्णितास्सन्ति, ते च धीधनाः स्वयं ज्ञास्यन्ति, इति नात्रातिकथनीयमस्माकम् । ___ अस्य विचारपञ्चाशिकाख्यस्य प्रकरणस्य प्रणेतारः श्रीवानरर्ण्यपरपर्यायाः श्रीविजयविमलगणयो बृहत्तपागच्छगगनाङ्गणगभस्तिमालिश्रीमदानन्दविमलसूरीशानां शिष्या आसन्, इति प्रकरणस्यास्यावसानगाथायां तदवचूां च स्फुटतया तैरेव प्रपञ्चितम् । यद्यपि प्रकरणकारैरत्र स्वसत्तासमयो नोपनिबद्धस्तथापि तैरेव निर्मितस्य भावप्रकरणस्यावचूर्णिगतेन-"गुणनयनरसेन्दुमिते १६२३ वर्षे पौषे च कृष्णपञ्चम्याम्।अवचूर्णिः प्रकटार्था, विहितेयं विजयविमलेन ॥१॥" अनेन पद्येन विक्रमार्कीयषोडशशताब्द्यामेषां विद्यमानता स्फुटमवगम्यते । अस्य त्रीणि पुस्तकानि सिद्धान्ताब्धिपारगश्रीमद्विजयानन्दसूरिशिष्यप्रवर्तकश्रीमत्कान्तिविजयकृतपुस्तकसङ्ग्रहादासादितानि, तुरीयं पुनः
SR No.023388
Book TitlePadarth Prakash Part 15
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages262
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy