SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ૧૧૧ श्रीकालसप्ततिकाप्रकरणम् ॥ अर्हम् ॥ ॥ प्रस्तावना ॥ इह हि पारगतास्यपीयूषपादप्रादुर्भूतवाक्सुधाशैवलिन्यधीशमध्यप्रवेशानिपुणप्रतिभानां दुरन्तभवार्णवावर्त्तगर्त्तपातविघटितसुखसन्दोहानां स्वर्गापवर्गसुखसम्पत्तिसम्पादनसम्पादितमनोरथशतसङ्कल्पविकल्पाकुलचेतसामैदंयुगीनभव्याङ्गिनामनुग्रहाय प्रकरणकर्तृत्वेन विदितावदातातिशयैरुपकृतिकर्मकर्मठैः प्रकरणकारैरिदं श्रीकालसप्ततिकाभिधानं प्रकरणं प्राकृतभाषया निबद्धम् । अस्मिन्प्रकरणे प्रकरणकारैरवसर्पिण्युत्सर्पिणीद्वयरूपकालचक्रमध्यभाविनामनेकेषां स्थूलस्थूलपदार्थसार्थानां स्वरूपं सक्षेपतः प्रपञ्चितमस्ति । प्रकरणस्यास्य के प्रणेतारः ? इति जिज्ञासायां जातायाम्-प्रकरणस्यास्य प्रथमगाथायां "देविंदणयं" इत्यनेन स्वगुरोः सेवाहेवाकि सुविहितसाधुसङ्घातसंसेवितपादपाथोरुहः श्रीमद्देवेन्द्रसूरे म प्रकटितम्, "विज्जाणंदमयं" इत्युल्लेखेन स्वज्येष्ठगुरुभ्रातुर्विद्यानन्दाभिधाननवीनशब्दानुशासनसन्दर्भसम्पादितप्राज्ञपटलहच्चित्रस्य श्रीमद्विद्यानन्दसूरेरभिधानं सङ्घटितम्, "धम्मकित्तिकुलभवणं" इति पदेनात्मनो धर्मकीर्तिरिति नामापि ध्वनितम् । अपरञ्च प्रकरणस्यास्यान्तिमगाथायाम्"सिरिदेविंदमुणीसर-विणेअसिरिधम्मघोससूरीहिं । अप्पपरजाणणट्ठा, कालसरूवं किमवि भणिअं ॥ ७४ ॥" अनया गाथयास्य प्रणेतारः श्रीमद्धर्मघोषसूरिपादा एवेति स्फुटतया प्रतीयते । एते वाचंयमचूडामणय: कतमं भूमण्डलं मण्डयामासुरेतद्विषयनिर्णयस्तु लोकनालिकाद्वात्रिंशिकाप्रस्तावनातोऽवसेयः । अस्य च
SR No.023388
Book TitlePadarth Prakash Part 15
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages262
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy