SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ श्रीलोकनालिद्वात्रिंशिका ૧૯૧ अथ सर्वाधऊर्ध्वलोकघनसङ्ग्रहायाह सयवग्गसंगुणे पुण, बिसयगुआला हवंति घणरज्जू । सड्ढपणहत्तरिसयं, सड्ढतिसट्ठी अहुड्ढ कमा ॥ २० ॥ I अवचूरिः - अधऊर्ध्वलोकखण्डुकानां स्वकस्वकवर्गे कृते चतुःषष्ट्या विभक्ते च घनरज्जवः स्युः । तथा (त्रा)ऽधोलोकस्य वर्गः क्रियते । अष्टाविंशतिरष्टाविंशत्या गुण्यते जातम् ७८४ । षड्विंशतिः षड्विंशत्या गुण्यते जातम् ६७६ । चतुर्विंशतिश्चतुर्विंशत्या गुण्यते जातम् ५७६ । विंशतिर्विंशत्या गुण्यते जातम् ४०० । षोडश षोडशभिर्गुण्यन्ते जातम् २५६ । दश दशभिर्गुण्यन्ते जातं १०० । चतुष्कं चतुष्केण गुण्यते जातम् १६ । एते वर्गा एकस्यां दिशि लब्धाः । एते वर्गास्तिसृषु दिक्षु लभ्यमानत्वाच्चतुर्भिर्गुण्यन्ते । यथैष अष्टाविंशतिवर्गः ७८४ चतुष्केण गुणितो जातम् ३,१३६ । षड्विशतिवर्गः ६७६ चतुष्केण गुणितो जातम् २,७०४ । चतुर्विंशतिवर्ग: ५७६ चतुष्केण गुणितो जातम् २,३०४ । विंशतिवर्ग : ४०० चतुष्केण गुणितो जातम् १,६०० । षोडशवर्ग: २५६ चतुष्केण गुणितो जातम् १,०२४ । दशवर्गः १०० चतुष्केण गुणितो जातम् ४०० । चतुष्कवर्गः १६ चतुष्केण गुणितो जातम् ६४ । सर्वाङ्कमीलने जातम् ११,२३२ । एषां चतुर्भिर्भागे हृते लब्धाः सूचीरज्जव: २,८०८ । पुनरेषां चतुर्भिर्भागे हृते लब्धाः प्रतररज्जवः ७०२ । पुनरेषां चतुर्भिर्भागे हृते लब्धं घनरज्जूनां पञ्चसप्तत्यधिकं शतं द्वौ च भागौ १७५ - २ । अथोर्ध्वलोकस्य स्वकवर्गः क्रियते । तथा चतुष्कस्य वर्गः षोडश । द्वितीयचतुष्कस्य वर्ग: षोडश । उभयोर्मीलने जातम् ३२ । षण्णां वर्गः षट्त्रिंशत् ३६ । द्वितीयषट्कस्य वर्गः षट्त्रिंशत् । उभयोर्मीलने जातम् ७२ । अष्टकस्य वर्गश्चतुःषष्टिः ६४ । दशकस्य शतम् १०० । द्वादशानां वर्गश्चतुश्चत्वारिंशच्छतम् । द्वितीयद्वादशकस्याप्येवम् । उभयोर्मीलने जातम् २८८ ।
SR No.023385
Book TitlePadarth Prakash Part 14 Kshullakbhavavali Prakaran Siddhadandika Stava Shreeyonistava Loknalidwatrinshika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages218
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy