________________
૧૮૮
श्रीलोकनालिद्वात्रिंशिका अवचूरिः - अधोलोके नारका असुरा भवनपतिदेवाश्च स्युः । अथ तिर्यग्लोकस्वरूपमाह - व्यन्तरा नरास्तिर्यञ्चो ज्योतिष्कास्तरवोऽग्निद्वीपोदधयश्च तिर्यग्लोके स्युः । अथोर्ध्वलोकस्वरूपमाह-सुरा द्वादशभेदा नव ग्रैवेयकाः पञ्चानुत्तरविमानवासिनः सिद्धाश्चोर्ध्वलोके स्युः ॥ १२ ॥
अथाधोलोके नरकादीनां पृथक् पृथक् स्वरूपमाहइक्किक्करज्जु इक्कि-कनिरय सगपुढवि असुर पढमंतो । तह वंतर तदुवरि नर-गिरिमाई जोइसा गयणे ॥ १३ ॥
अवचूरिः - अधोलोकतलादेकैकरज्जौ गतायां सप्तसु नरकेष्वेकैको नरकः । तथा असुरप्रथमान्तः प्रथमपृथ्वीमध्येऽसुरदेवा व्यन्तराश्च । तदुपरि प्रथमपृथिव्युपरि नरगिरितरुद्वीपोदधिसरिदादयः स्युः । ज्योतिष्का गगने आकाशे ॥ १३ ॥
अथ देवलोकानां प्रमाणमाह
छसु खंडगेसु अ दुगं, चउसु दुगं छसु अ कप्पचत्तारि । चउसु चऊ सेसेसु अ, गेविज्जणुत्तरयसिद्धिते ॥ १४ ॥
अवचूरिः - रत्नप्रभापृथ्वीतलात् षट्सु खण्डुकेषु गतेषु “दुगंति" सौधर्मेशानदेवलोकयोर्युग्मं भवति । ततः खण्डुकषट्काच्चतुर्यु खण्डुकेषु गतेषु सनत्कुमारमाहेन्द्रदेवलोकयोयुग्मं भवति । ततः खण्डुकचतुष्कात् षट्सु खण्डुकेषु गतेषु चत्वारः कल्पा देवलोका ब्रह्मलान्तकशुक्रसहस्राराख्याः स्युः । ततः खण्डुकषट्काच्चतुर्यु खण्डुकेषु गतेषु चत्वारः कल्पा आनतप्राणतारणाच्युताख्याः स्युः । ततः शेषेष्वष्टसु खण्डुकेषु नव ग्रैवेयकाः पञ्चानुत्तरविमानानि अन्ते लोकान्ते सिद्धा(द्धि)श्च स्युः । अयम्भावः-अष्टानां मध्ये चतुर्पु खण्डुकेषु नव ग्रैवेयकाः । शेष(षेषु) चतुषु चानुत्तरविमानानि । अन्तेऽन्त्यखण्डप्रान्ते सिद्धिरिति ॥ १४ ॥