________________
૧૪૬
श्रीसिद्धदण्डिकास्तवः
श्रीमत्तपागच्छगगनगभस्तिमालिश्रीमद्देवेन्द्रसूरिपादप्रणीतः ॥ श्रीसिद्धदण्डिकास्तवः ॥
॥ सङ्क्षिप्तटिप्पणीसहितः ॥ जं उसहकेवलाओ, अंतमुहुत्तेण सिवगमो भणिओ । जा पुरिसजुगअसंखा, तत्थ इमा सिद्धदंडीओ ॥ १ ॥ सत्तुंजयसिद्धा भरह-वंसनिवई सुबुद्धिणा सिट्ठा । जह सगरसुआण-ऽट्ठावयंमि तह कित्तिअं थुणिमो ॥२॥ आइच्चजसाइ सिवे, चउदसलक्खा य एगु सव्वद्वे । एवं जा इक्किक्का, असंख इगदुगतिगाईवि ॥ ३ ॥ जा पन्नासमसंखा, तो सव्वलृमि लक्खचउदसगं । एगो सिवे तहेव य, अस्संखा जाव पन्नासं ॥ ४ ॥
टि० आदित्ययशोनृपप्रभृतयो नाभेयवंशजास्त्रिखण्डाधिपाश्चतुर्दशलक्षा निरन्तरं सिद्धिमगमन् । तत एकः सर्वार्थसिद्धे । अत्र सर्वत्र सर्वार्थशब्देन पञ्चाप्यनुत्तरविमानानि लभ्यन्ते यतो विमानपञ्चकाधारस्य तत्प्रस्तटस्य सर्वार्थनाम्ना रूढिरिति । एवं चतुर्दश-चतुर्दश-लक्षान्तरितः सर्वार्थसिद्ध एकैकस्तावद्वक्तव्यो यावत्तेऽप्येकैका असङ्ख्यया भवन्ति । ततो भूयश्चतुर्दश लक्षा नृपा निरन्तरं निर्वाणे, द्वौ सर्वार्थसिद्धे । एवं चतुर्दश-चतुर्दशलक्षान्तरितौ द्वौ द्वौ सर्वार्थसिद्धे तावद्वाच्यौ यावत्तेऽपि द्विकसङ्ख्या असङ्ख्येया