________________
૩૪૪ ]
[ हैमशब्दानुशासनस्थं
तृषि - धृषि स्वपो नजिङ् । ५ । २ । ८० ।
एभ्यः
शीलादि - सदर्थेभ्यः नजिङ् स्यात् ।
तृष्णकू, धृष्णक, स्वप्नजौ ॥ ८० ॥ स्थे-श- भास - पिस-कसो वरः । ५ । २ । ८१ ।
एभ्यः
शीलादि-सदर्थेभ्यः
स्थावरः,
वरः स्यात् ।
ईश्वरः, भास्वरः, पेस्वरः,
विकस्वरः ॥ ८१ ॥
यायावारः । ५ । २ । ८२ ।
यातेः
यङन्तात् शीलादि-सदर्थाद्
वरः स्यात् । यायावरः || ८२ ॥