SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ (३९७) यते । दण्डेनाताडं दण्डाताडं गाः कलयति । पक्षे दण्डेनोपहत्येत्यादि । हिंसादिति किम् ? चन्दनादिना महावीरं जयति । एकाप्यादिति किम् ? दण्डेनाहत्य चैत्रं गोपालः धनू : खेटयति . उपपीड-रुध-कर्षस्तत्सप्तम्या । ५ । ४ । ७५ । तृतीयायुक्ता सप्तमी तत्सप्तमी । तृतीयान्तेन सप्तम्यन्तेन च योगे सति उपपूर्वेभ्यः पीडरुधकर्षभ्यस्तुल्यकर्तृकेऽर्थे वर्तमानेभ्यो धातोः सम्बन्धे णम् वा भवति । पार्धाभ्यामुपपीडं पार्थोपपीडं शेते । पार्श्वयोरुपपीडं पार्थोपपीडं शेते । ब्रजेनोपरोधं वनोपरोधं गाः सादयति । व्रजे उपरोधं व्रजोपरोधं गाः स्थापयति । पाणिनोपकर्ष पाण्युपकर्ष धानाः पिनष्टि। पाणावुपकर्ष पाण्युपकर्ष धानाः गृह्णाति । कर्षतेः शवो निर्देशादै भौवादिकस्य ग्रहणं न तौदादिकस्य । तेन भूमौ उपकृष्य तिलान् वपति इति विलेखनार्थस्य न णम् । ............ प्रमाण-समासत्त्योः । । ४ । ७६ । . ... आयाममानं प्रमाणम् , समासत्तिः संरम्भपूर्वकः सन्निकर्षः, तयोः गम्यमानयोः तृतीयान्तेन सप्तम्यन्तेन च योगे तुल्यकर्तृकेऽर्थे वर्तमानाद् धातोः धातोः सम्बन्धे सति णम् वा भवति । द्वयालेनोत्कर्ष व्यङ्गुलोत्कर्ष गण्डिकाः छिनत्ति । द्वयगुले उत्कर्ष द्वयगुलोत्कर्ष गण्डिकाश्छिनत्ति । समासत्तिः केशैाह केशग्राहं युध्यन्ते । केशेषु ग्राहं केशमाहं युध्यन्ते । पक्षे द्वयगुलेनोत्कृष्य व्यङ्गुले उत्कृष्य गण्डिकाः छिनत्ति इत्यादि।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy