SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ (२६६) स्म उपपदे प्रैषादिषु गम्येषु ऊर्ध्वमौहूर्तिकाद् धातोः पञ्चमी भवति । ऊर्ध्वं मुहुर्ताद् भवान् कटं करोतु स्म । भवान् हि प्रेषितोऽनुज्ञातः; भवतोऽवसरः कटकरणे.।। अधीष्टौ । ५।४ । ३२।। स्मे उपपदेऽध्येषणायां गम्यमानायां धातोः पञ्चमी भवति । अङ्ग स्म हे विद्वन् ! अणुव्रतानि रक्ष । सप्तमी यदि । ५ । ४ । ३४। यच्छन्दप्रयोगे कालादिखूपपदेषु धातोः सप्तमी भवति । कालो यद् अधीयीत भवान् । वेला यद् भुञ्जीत । समयो यच् छ्यीत । ... आशिष्याशी:-पञ्चम्यौ।५।४।३८ । आशीविशिष्टार्थादाशी:- पञ्चम्यौ भवतः । जीयात् भवान् । जयतु राजन् । आशिपीति किम् ? चिरं जीवति सिद्धपुत्रः । माङयद्यतनी । ५।४ । ३९ । माङि उपपदे धातोरद्यतनी भवति । मा कार्षीत् । मा गमः। सस्मे ह्यस्तनी च । ५। ४ । ४० । स्मयुक्ते माङि उपपदे धातो ह्यस्तन्यद्यतन्यौ भवतः । मा स्म करोत् , मा स्म कार्षीत् । धातोः सम्बन्धे प्रत्ययाः । ५।४ । ४१ । धात्वर्थानां सम्बन्धे विशेषणविशेष्यभावे सति अयथाकालमपि
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy