SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ (२४६) ङिति यि शय् । ४।३।१०५।... किति ङिति च यादौ प्रत्यये शीधातोः शयादेशो भवति । शय्यते । शय्येत । शय्यताम् । अशय्यत । शिश्ये । शायिषीष्ट, शयिषीष्ट । शायितासे, शयितासे । शायिष्यते, शयिष्यते । अशायिष्यत, अशयिष्यत । अशायि अशायिषाताम् , 'अशयिषाताम् अशायिषत, अशयिषत । अशायिष्ठाः, अशयिष्ठाः । भञ्-भन्यते । अभज्यत । भनौं वा । ४।२।४८। भञ्जौ परे उपान्त्यस्य नो लुग् वा भवति । अभाजि, अभजि । अभनिषाताम् , अभासाताम् वेट्त्वात् । जन्धातो:--- ये नवा । ४ । २ । ६२ । सनखनजनां ये क्ङिति परे आकारो वा भवति । जायते, जन्यते । जायेत, जन्येत । जायताम् , जन्यताम् । अजायताम् , अजन्यताम् । सायते, सन्यते । सायेत, सन्येत । सायताम् , सन्यताम् । असायत, असन्यत । खायते, खन्यते । खायेत, खन्येत । खायताम् , खन्यताम् । अखायत, अखन्यत । जज्ञे। अननि अजनिषाताम् । सेने । असनि असनिषाताम् । चल्ने । अखानि अखानिषाताम् । तनः क्ये । ४ । २।६३
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy