SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ (२०५) पास्पर्चि पास्पर्द्धः पास्पर्धति। पास्पर्धीषि, पास्पत्ति । पास्पर्ध्यात् । पास्पर्धीतु, पास्पर्धा। हो पास्पर्धि । अपास्पर्धीत , अपास्प अपास्पर्दधाम् अपास्पधुः । अपास्पर्धीः, अपास्प , अपास्पाः । पास्पर्धाञ्चकार । पास्पर्ध्यात् । पास्पर्धिता । पास्पर्धिष्यति । अपास्पर्धिष्यत् । अपास्पर्धीत् । गाधू प्रशंसालिप्साग्रन्थेषु । जागाधीति, जागादि । जागाधीषि, जागात्सि । जागाध्यात । जागाधीतु, जागाधु । अजागाधीत् , अनागात् । नाथू याञ्चायाम् । नानाथीति, नानात्ति । नानाथ्यात् । नानाथीतु, नानात्तु । अनाना. थीत् , अनानात् । नानाथाञ्चकार । नानाथ्यात् । नानाथिष्यति । अनानाथिष्यत् । अनानाथीत् । दधि धारणे । दादधीति, दादद्धि । दादधीषि, दादत्सि । दादध्यात् । दादधीतु, दादधु । अदादधीत्, अदाधत् । अदादधः, अदाधत् । दादधाञ्चकार । दादध्यात् । अदादधीत् । मुदि हर्षे । मोमुदीति, मोमोत्ति । मोमुद्यात् । मोमुदीतु, मोमोत्तु । अमोमुदीत् , अमोमोत् । अमोमुदीः, अमोमोत् , अमोमोः। मोमोदाञ्चकार । मोमोदिता । मोमोदिष्यति । अमोमोदीत् । कुर्दि गुर्दि (खुर्दि) गुदि क्रीडायाम् । चोकूर्दीति, चोकूर्ति । चोकूर्यात । चोकूर्दीतु, चोकोर्तुं । चोकूद्धि । अचोकूर्दीत् । अचोकूः, अचोकू , अचोकूर्दीः । चोकूर्दाञ्चकार । चोकूर्दिता । अचोकूर्दिष्यत् । अचोकूर्दीत् । कृ रिरौ च लुपि । ४ । १ । ५६ । ऋमतां धातूनां यङो लुपि द्वित्वे सति पूर्वस्य रिरौ
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy